पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९ [अ० १०. सू० ९७.]२७० षष्ठं काण्डम् । अ॒भि॒ऽभूः । य॒ज्ञः । अ॒भि॒ऽभूः । अ॒ग्निः । अ॒भि॒ऽभूः । सोम॑ः । अ॒भि॒ऽभूः । इन्द्रः । अ॒भि । अ॒हम् । विश्वा॑ः । पृत॑नाः । यथा॑ । असा॑नि । ए॒व । वि॒धेम॒ । अ॒- ग्निऽत्राः । इ॒दम् । ह॒विः ॥ १ ॥ यज्ञः अस्माभिर्जयकामैः क्रियमाणो यागः अभिभू: शत्रूणाम् अभि- भविता भवतु । तथा यागनिष्पादकोयं सांग्रामिकोग्निः अभिभू: अभि- भविता अस्तु । यागसाधनभूतः सोमः अभिभूः शत्रूणाम् अभिभविता | तेन सोमेन तर्पित इन्द्रः अभिभूः अभिभविता ॥ अहं शत्रुजयकामः विश्वाः सर्वाः पृतना: सेना: शात्रवीः यथा अभ्यसानि अभिभवानि एव एवम् अग्निहोत्रा: अग्नौ जुह्वतो वयम् इदं संग्रामजयार्थे हवि: विधेम विध्याम | हुविध विधाने । तौदादिकः ॥ द्वितीया || स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त् क्ष॒त्रं मधु॑ने॒ह पि॑न्वत॑म् । बाघैयां दूरं नितिं परा॒चैः कृतं चि॒देन॒ प्र मु॑मुक्तम॒स्मत् ॥ २ स्व॒धा । अस्तु । मित्रावरुणा । वि॒िपःऽचि॒ता । प्र॒जाऽव॑न् । क्ष॒त्रम् | मधु॑ना । इह । पिन्वतम् । बाधेषाम् । दूरम् । निऽॠतिम् । पराचैः । कृ॒तम् । चि॒त् 1 एन॑ः । म । मुमुक्तम् । अस्मत् ॥ २ ॥ हे विपश्चित विपश्चित मेधाविनौ हे मित्रावरुणा मित्रावरुणौ युवा- भ्यां स्वधा । अन्ननामैतत् । हविर्लक्षणम् अन्नम् अस्तु तृप्तिकरं भव- तु । तौ युवाम् इह अस्मिन् राजनि प्रजावत् प्रजाभिर्युक्तं क्षत्रम् बलं मधुना मधुररस्सेन पिन्वतम् सिञ्चतम् । X पिवि सेचने । इदिवा- नुम् । • निॠतिम् पापदेवतां पराजयकारिणीं पराचैः पराङ्मुखं दूरं बाधेथाम् । अस्मत्तो दूरदेशे यथा सा पराङ्मुखी विनश्यति तथा B पि॑िन्वत. १