पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० अथर्वसंहिताभाष्ये हिंस्तम इत्यर्थः । कृतं चित् शत्रुभिः कृतमपि एनः पापं पराजयनिमि- नम् अस्मत् सकाशात् म मुमुक्तम् प्रमोचयतम् । छान्दस: शप: शुः ॥ Xमुल मोक्षणे । तृतीया || इ॒मं वी॒रमनु॑ हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रंभध्वम् । ग्रामजित गोजितं॒ वज्रबाहुं जय॑ना॒न॒मम॑ प्रभृणन्त॒मोज॑सा ॥ ३ ॥ इ॒मम् । वी॒रम् । अनु॑ । ह॒ष॑ध्व॒म् | उ॒ग्रम् | इन्द्र॑म् । स॒खाय॒ः । अनु॑ । सम् । रभध्वम् । 'ग्राम॒ऽजित॑म् । गो॒ऽजित॑म् । वज्र॑ऽवाहुम् । जय॑न्तम् । अम॑ प्र॒ऽमृ॒णन्त॑म् ओज॑सा ॥ ३ ॥ इमम् अस्मदीयं वीरम वीर्यवन्तं राजानम् अनु हे सैनिकाः हर्षध्वम् वीररसेन हृष्टा भवत । कीदृशम् | उग्रम् उहूर्णबलम् इन्द्रम परमैश्व- र्ययुक्तम् हे सखायः समानख्यानाः सैनिकाः अनु सं रभध्वम् राजानम अनुसृत्य युद्धोयुक्ता भवत । यद्वा इन्द्रः संग्रामाधिदेवता स एवात्र स्तू- यते । अस्मिन् पक्षे हे सखायः समानख्याना मरुत इत्येतावानेव विशे- षः । कीदृशम् इन्द्रम | ग्रामजितम् ग्रामान जयन्तं गोजितम् गा: शात्रवीर्जयन्तम् अपहरन्तं वज्रबाहुम् वज्रहस्तम् उद्यतायुधम् अत एव जयन्तम् शत्रून् पराजितान् कुर्वन्तम् | अज्म अजनशीलं क्षेपणशीलं त्रुबलम् ओजसा बलेन प्रमृणन्तम् प्रकर्षेण हिंसन्तम् । सायाम् । “श्राभ्यस्तयोरात: " इति आल्लोपः ॥ मृञ् हिं- चतुर्थी ॥ इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिराजो राज॑सु राजयाते । चकृ॑त्य॒ ईड्यो वन्य॑श्योप॒सर्थो नम॒स्य भवेह ॥ १ ॥ इन्द्र॑ । ज॒या॒ति॒ । न । परा॑ । जयतै । अधि॒ऽराजः । राज॑ऽसु । राजयातै । च॒कृ॒त्य॑ः । ईड्य॑ः । वन्यः॑ः । च॒ । उप॒ऽसच॑ः । नम॒स्यः । भव । इ॒ह ॥ १ ॥