पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ अथर्वसंहिताभाष्ये र्ता भूः भवसि । X भवतेश्छान्दसे लुङि “बहुलं छन्दस्यमाङयोगे- पि” इति अडभावः हूँ । दैवी: देवसंबन्धिनी: इमा विशः प्रजा: त्वं वि राज ईशिष्व । * राजतिः ऐश्वर्यकर्मा । हे राजन् ते तव आयुष्मत् चिरकालजीवनोपेतम् अजरम् जरारहितम् अपचयरहितं क्षत्रम् बलम् अस्तु भवतु । अजरम् इति । “नञो जरमरमित्र- मृताः" इति उत्तरपदाद्युदात्तत्वम् ॥ षष्ठी ॥ प्राच्या॑ द॒शस्वमि॑न्द्रासि॒ राजा॒ोतोदींच्या दि॒शो वृ॑त्र॒ह॑न्छत्रुहो॒सि । यत्र॒ यन्त स्रोग्यास्तचि॒तं ते॑ दक्षिणतो वृ॑ष॒भ ए॑षि॒ ह॒व्य॑ः ॥ ३ ॥ प्राच्यः । दि॒शः । त्वम् | इ॒न्द्र॒ | अ॒सि॒ । राजा॑ । उ॒त । उदी॑च्याः । वि॒शः । वृत्र॒ऽहुन् । शत्रुऽहः । अ॒ । यत्र॑ । यन्ति । स्रोत्याः । तत् । जितम् । ते । दक्षिणतः । वृष॒भः । ए॒ष । हव्यः ॥ ३ ॥ हे इन्द्र त्वं प्राच्या दिश: राजासि अधिपतिर्भवसि । उत उदीच्या: उत्तरस्या अपि दिशः अधिपतिरसि । प्राचीग्रहणं प्रतीच्या अप्युपल- क्षणम् । उदीचीग्रहणं. दक्षिणस्या अपि उपलक्षणम् । अत एव देशस्य वैविध्यम उक्तम् । देश: माग्दक्षिण: प्राच्य उदीच्यः पश्चिमोत्तरः सि । इति । तस्मात् सर्वासां दिशाम अधिपतिरसीत्यर्थ: । हे वृत्रहन् वृ- त्राणां शत्रूणां हन्तरिन्द्र त्वं शत्रुहोसि अस्मदीयानां शत्रूणां हन्ता भव- Z“आशिषि हनः” इति हन्तेर्डप्रत्ययः । यत्र यस्मिन् भूप्रदेशे स्त्रोत्याः स्रोतो जलप्रवाहा यन्ति प्रवहन्ति तत् सर्व स्थानं ते तव जितम् स्वकीयमेव भवति । कृत्स्नं भूमण्डलं त्वदायत्तमेवेत्यर्थः । ईडशो वृषभ: कामानां वर्षिता हव्यः अस्माभिराह्वातव्यः सन् संग्राम- २AKKPV चि हव्यः DC. °षि ह॒व्यं: B C ह॒व्य॑ currected १R वृत्रहंछ into 'वि ह॒व्यः. We with RPSJCr. ३ Þ K ह॒व्यः We with PJ Cr.