पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ अथर्वसंहिताभाष्ये णम आह । उग्रम् उद्भूर्णबलं चेतारम् वेदितारं जयोपायज्ञं पुरुनामानम् पुरुभिर्बहुभिः प्रशस्तैर्नामधेयैर्युक्तम् यद्वा बहूनां शत्रूणां नमयितारम ए- कजम । एक एव जायते युद्धेषु प्रादुर्भवतीति एकजः । तम् असहायशू- रम इन्द्रं ह्वयामि ॥ द्वितीया ॥ यो अ॒द्य सेन्यो॑ व॒धो जिघसन् न उ॒दीर॑ते । इन्द्र॑स्य तत्रे बाहू स॑म॒न्तं परि॑ दद्मः ॥ २ ॥ यः । अ॒द्य । सेन्य॑ः । व॒धः । जिघन् । नः । उत्ऽईर॑ते । इन्द्र॑स्य । तत्र॑ । बाहू इति॑ । स॒म॒न्तम् । परि॑ । दु॒ह्म॒ ॥ २ ॥ अद्य इदानीं सेन्यः शत्रुसेनासंबन्धी यो वधः हननसाधनम् आयुधं नः अस्मान् जिघांसन् हन्तुम् इच्छन् उदीरते उद्गच्छति । गतौ कम्पने च । छान्दस: शपो लुगभावः । जिघांसन्निति । ज्झनगमां सनि ” इति दीर्घः 'अभ्यासाच्च” इति कुत्वम् 66 । तस्मिन् वधे इन्द्रस्य वाहू हस्तौ अस्मद्रक्षार्थ समन्तम् सर्वतः परि दध्मं प्राकारवत् परितो धारयामः ॥ तृतीया ॥ परि॑ि दह्म॒ इन्द्र॑स्य बाहू स॑म॒न्तं ऋ॒तुस्त्राय॑तां नः । देव॑ सवित॒तः॒ सोम॑ रा॒जन्त्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥ ३ ॥ परि॑ । दु॒ह्म॒ । इन्द्र॑स्य । ब॒ाहू इति॑ । स॒म॑न्तम् । ऋ॒तुः । त्राय॑ताम् । नः । देव॑ । स॒वि॒ितः । सोम॑ । रा॒ज॒न् । सु॒ऽमन॑सम् । मा॒ा | कृ॒णु । स्व॒स्तये॑ ॥ ३ ॥ त्रातुः पालयितुरिन्द्रस्य बाहू हस्तौ समन्तम सर्वतः परि दध्मः । अतः स इन्द्रः नः अस्मान् त्रायताम् रक्षतु ॥ हे सवितः सर्वस्य प्रे रक देव हे राजन् सोम स्वस्तये क्षेमाय अविनाशायमा मां संग्रामे सुमनसम् जयेन शोभनमनस्कं कृणु कुरु । मोषसी ” इति उत्तरपदाद्युदात्तत्वम् ॥ “सोर्मनसी अलो- ,, १ PPJ CP जिघांसम्. We with Sayana. So PPJ Cr.