पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू०१०१.]२७४ षष्ठं काण्डम् । तत्र प्रथमा || आ वृ॑षायस्व श्वसिहि वर्ध॑स्व प्रथय॑स्व च । यथाङ्गं व॑र्धतां शेप॒स्तेन॑ य॒ोषित॒मिज्ज॑हि ॥ १ ॥ आ । वृष॒ऽय॒स्व॒ । श्व॒ह । वर्ध॑स्त्र । प्र॒थय॑स्व । च। य॒थाऽअङ्गम् । वर्धताम् । शेर्पः । तेन॑ । यो॒ोषित॑म् । इत् । जहि ॥ १ ॥ । २०७ श्व- हे पुरुष त्वम् आ वृषायस्व आ समन्ताद् वृषा सेचनसमर्थः पुंग- वः स इव आचर । अनेन बद्धेन अर्कमणिना बहुरेतस्को भवेत्य- र्थः । ॐ वृषशब्दात् “ कर्तुः क्यङ् सलोपश्च" इति क्यङ्ङ्क । सिहि प्राणिहि । दृढमाणो बलवान् भवेत्यर्थः । श्वस प्राणने । अ- दादित्वात् शपो लुक् । “रुदादिभ्यः सार्वधातुके” इति इडागमः ४ । र्धस्व उपचीयमानावयवो भव प्रथयस्व च विस्तीर्णशरीरो भव । विस्तारे | चुरादिरदन्तः । यथाँ येन प्रकारेण त्वदीयम् अँङ्ग शे- पः पुंस्मजननं वर्धताम् । उपचितावयवं सत् मिथुनीभवनक्षमं भवति तथा वर्धस्व प्रथयस्व चेति संबन्धः । तेन प्रवृद्धेन शेपसा योषितम् सुरतार्थिनीं स्त्रियं जहि गच्छ । इच्छब्दः अवधारणे । स च उक्तफ- लस्य अव्यभिचारं सूचयति ॥ मथ व- द्वितीया ॥ येन॑ कृ॒शं वा॒जय॑न्ति॒ येन॑ हि॒न्वन्त्यानु॑रम् । तेना॒स्य ब्र॑ह्म॒णस्पते॒ धनु॑रि॒वा ता॑नया॒ा पस॑ ॥ २ ॥ येन॑ । कृ॒शम् । वा॒जय॑न्ति । येन॑ । हि॒न्वन्ति । आतु॑रम् । तेन॑ । अ॒स्य । ब्र॒ह्म॒णः । पते॒ । धनु॑ऽइव । आ । त॒नय॒ । पस॑ ॥ २ ॥ येन रसविशेषेण वंशम् वन्ध्यं शुष्कवीर्य पुरुषं वाजयन्ति वाजीकुर्वन्ति प्रजननसमर्थवीयोंपेतं कुर्वन्ति । येन रसविशेषेण आतुरम् रोगार्त पुरुषं हिन्वन्ति प्रीणयन्ति पोषयन्ति । * हिवि प्रीणने । इदित्वान्नुम् ४ । हे १ ABDR'SVCS यथा. We with BKKPPJCr. २ Pश्वसिहि