पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू० १०२.]२७५ षष्ठं काण्डम् । २०९ रे॒ष्मऽधि॑न्न॒म् । यथा॑ । नृण॑म् । मयि॑ । ते॒ । वे॒ष्ट॒म् । मन॑ः ॥ २ ॥ हे कामिनि ते तव मनः चित्तम् अहम् अनेन प्रयोगेण आ खिदा- मि मदभिमुखम् उत्खनामि उन्मूलयामि । आवर्जयामीत्यर्थः । छुखि- स द उत्खाते । तत्र दृष्टान्तः । राजाश्वः अश्वानां राजा राजा- राजदन्तादिषु [पठित ]त्वात् षष्ठ्या: परनिपातः । यथा अश्वश्रेष्ठः पृष्ट्याम् शङ्कुबडां सबन्धनरज्जुं लीलया आखिदति त इत् । रेष्मच्छिन्नम् रेष्मा रेषको वात्यात्मको वायुः तेन च्छिन्नं भग्नं तृ- णं यथा तद्वशं सत् परिभ्रमद् वर्तते हे कामिनि ते त्वदीयं मनः त- इद् मयि वेष्टताम् मदधीनं सत् परिभ्राम्यतु मा कदाचिद् अपगच्छु- वेष्ट वेष्टने ॥ तु । आञ्ज॑नस्य म॒दुध॑स्य॒ कुष्ठ॑स्य॒ नम॑दस्य च । तु॒रो भग॑स्य॒ हस्ता॑भ्या॑मनुरोध॑न॒मुद्भि॑रे ॥ ३ ॥ आ॒ऽअन॑नस्य | म॒दुर्घस्य । कुष्ठ॑स्य । नल॑दस्य | च। तु॒रः । भग॑स्य । हस्ता॑भ्याम् । अ॒नु॒ऽरोध॑नम् । उत् । भरे ॥ ३ ॥ आञ्जनस्य अञ्जनसाधनद्रव्यस्य त्रिककुत्पर्वतोद्भवस्य नीलाञ्जनादिमणेः मधुंघस्य मधूकवृक्षस्य यष्टिमधुकस्य वा कुष्ठस्य एतत्संज्ञकस्य औषधस्य न- लदस्य । सुगन्धिस्तृणविशेषो नलदः उशीरापरपर्याय: । एतेषां द्रव्याणाम् समुच्चयार्थश्चकारः । एतेषां समुदितानां द्रव्याणां संबन्धि अनुरोधनम् । अनुरुध्यते वशीक्रियते अनेनेति अनुरोधनम् अनुलेपनम् । रुध कामे इत्यस्मात् करणे ल्युट् । ईदृशम् अञ्जनादिद्रव्यसाधन- भूतम् अनुलेपनं तुर: लरमाणस्य भगस्य सौभाग्यकरस्य देवस्य हस्ता- भ्याम् अहम् उद् भरे उद्धरामि । त्वदीयम् अङ्गम् अनुलिम्पामीत्यर्थः ॥ चतुर्थ सूक्तम् ॥ ४ अनौ · इति सायणार्यविरचिते अथर्वसंहिताभाष्ये षष्ठकाण्डे द्रशमोनुवाकः ॥ b १ A Ê D KR C- भ्या॒मनु॒. We with K SPPJVC.