पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये 66 एकादशेनुवाके पञ्च सूक्तानि । अत्र “संदानं वः " [१०३] आ- दानेन" [१०४] इति तृचाभ्यां संग्रामजयकर्मणि भाङ्गपाशान् अन्यान् वा इङ्गिडालंकृतान् पाशान् संपात्य अभिमन्य परसेनाक्रमणस्थानेषु प्रक्षि- पेत् । “संदानं व आदानेनेति पाशैरादानसंदानानि ” इति हि सूत्रम् [कौ०२.७] ॥ २१० तत्र प्रथमा ॥ सं॒दानं॑ वो बृह॒स्पति॑ः संदानं सवि॒ता क॑रत् । सं॒दानं॑ मि॒त्रो अ॑र्य॒मा सं॒दानं॒ भगो॑ अ॒श्विना॑ ॥ १॥ स॒म॒ऽदान॑म् । वः॒ । बृह॒स्पति॑ः । स॒मऽदान॑म् । सवि॒ता । करत् । स॒मा॒ऽदान॑म् । मि॒त्रः । अ॒र्य॒मा । स॒मऽदान॑म् | भग॑ः । अ॒श्विना॑ ॥ १ ॥ हे शत्रुसेना: बृहस्पतिर्देवः वः युष्माकं संदानम् बन्धनम् एभिः प्र- क्षितैः पाशैः करत् करोतु । * संपूर्वो द्यतिर्बन्धने वर्तते । तस्माद् भावे ल्युट् । सविता सर्वप्रेरको देवः संदानम् युष्माकं बन्धनं क- रोतु । करोतेर्लेटि अडागमः । व्यत्ययेन [ वा ] शप् । मि- त्रश्च अर्यमा च संदानम् बन्धनं करोतु । भगश्च अश्विना अश्विनौ च संदानम् बन्धनं कुर्वन्तु ॥ द्वितीया ॥ सं प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान् । इन्द्र॒स्तान् पर्यहार्दाना तान॑ग्ने॒ सं द्या त्वम् ॥ २॥ सम् । पर॒मान् । सम् । अव॒मान् । अथो॒ इति॑ । सम् । मि॒ । म॒ध्य॒मान् । इन्द्र॑ः । तान् । परि॑ । अाः । दाम्न | तान् । अग्ने । सम् | ह्य् | त्वम् ॥ २ ॥ परमा उत्कृष्टां दूरदेशस्थां वा शत्रुसेनां पाशैरहं सं द्यामि बभा- मि । ४ दो अवखण्डने । 'ओतः श्यनि" इति ओकारलोपः । अत्र उपसर्गवशाद् बन्धनार्थः । अवमाम् अपकृष्टाम् आसन्नदे- शवर्तिनीं वा परसेनां सं यामि । अथो अपि च मध्यमाम मध्यव-