पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये पञ्चमी ॥ इ॒दमा॒ादान॑मक तप॒सेन्द्रे॑ण॒ संशितम् । अ॒मित्रा॒ येन॑ नः॒ सन्ति॒ तान॑न्न॒ आ द्या त्वम् ॥ २ ॥ इ॒दम् । आ॒ऽदान॑म् | अकरम् । तप॑सा । इन्द्रेण | समऽशितम् । अ॒मित्रा॑ । ये । अत्र॑ । नः॒ः । सन्ति । तान् । अ॒ग्ने॒ । आ । ह्य् | त्वम् ॥ २॥ इदम आदानम् आबन्धनसाधनं पाशयन्त्रं तपसा अभिचारकर्मोक्त- नियमविशेषेण अकरम अकार्षम् । * “कृमृहरुहिभ्यः” इति ले: अङ् आदेशः इन्द्रेण संशितम् सम्यक् तीक्ष्णी- कृतम् । X शो तनूकरणे । 'शाच्छोरन्यतरस्याम्" इति इ- । तच पूर्वम २१२ त्वम् । अत्र अस्मिन् संग्रामे नः अस्माकम् अमित्राः शत्रवो ये सन्ति हे अग्ने तान् सर्वान् शत्रून् त्वम् आ द्य आवधान पाशयन्त्रे- ण गृहाण ॥ षष्ठी ॥ ऐना॑न् द्यतामिन्द्रा॒ानी सोम॒ो राजा॑ च मे॒दिन । इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्र॑भ्यः कृणोतु नः ॥ ३ ॥ आ। ए॒ना॑न् । द्यताम् । इ॒न्द्र॒ इति॑ । सोम॑ः । राजा॑ । च॒ । मे॒दिनो॑ । इन्द्र॑ । म॒रुत्वा॑न् । आ॒ऽदान॑म् । अ॒मिने॑भ्यः । कृ॒णोतु । नः ॥ ३ ॥ इन्द्रश्च अग्निश्च इन्द्रानी मेदिनौ मेदस्विनी अस्माभिर्दत्तेन हविषा माद्यन्तौ वा देवौ एनान् अस्मच्छत्रून् आ द्यताम् आबनीताम् । तथा सोमो राजा च आबभानु । मरुत्वान् मरुद्गणैर्युक्त इन्द्रः नः अस्माकम् अमित्रेभ्यः शत्रुभ्यः आदानम् आवन्धनं कृणोतु करोतु ॥ [इति ] एकादशेनुवाके प्रथमं सूक्तम् ॥ ‘यथा मनो मनस्कैते;" इति तृचेन कासश्लेष्मरोगदिशान्त्यर्थे स- कुमन्थम् अभिमन्य भक्षयेत् ॥ १ All our Saañliita authorities 'नौ, and puda authorities 'नाम्, except Cr which we follow. २P द्यम्.