पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये । 'षाञ्चेरदिस्त्रियाम्” इति स्वार्थिकः खः हेधिरादेशः ॥ २१६ 66 ८८ शृणुपकृवृभ्यः" इति षष्ठी ॥ हि॒मस्य॑ त्वा ज॒रायु॑णा॒ा शाले परि॑ व्ययामसि । श॒तह॑ा हि नो॒ भुवो॒ोग्निष्कृ॑णोतु भेष॒जम् ॥ ३ ॥ हि॒मस्य॑ त्वा॒ा । ज॒रायु॑णा | शाले । परि॑ । व्य॒याम॑सि॒ । शी॒तऽह॑दा | हि । नः॒ः । भुव॑ः । अ॒ग्निः । कृ॒णोतु॒ । भेष॒जम् ॥ ३ ॥ हे शाले हिमस्य शीतलोदकस्य जरायुणा जरायु गर्भवेष्टनम् तद्वद् आवेष्ट्य अवस्थितेन अवकारूपेण शैवालेन त्वा त्वां परि व्ययामसि परि- व्ययामः परिवेष्टयामः । नः अस्माकं त्वं शीतहूदा शीतलहूदयुक्ता भुवः भवेः । हि यस्माद् एवं तस्मात् परिव्ययाम इत्यर्थः । इत्थम् अस्माभिः प्रार्थित: अग्निः गृहादीनां भेषजम् अदाहनिमित्तम् औषधं कृणोतु करोतु ॥ [इति ] द्वितीयं सूक्तम् ॥ 'विश्वजित् त्रायमाणायै” इति चतुर्ऋचस्य बृहद्गणे पाठात् शान्त्युद- काभिमन्त्रणादौ विनियोगः ॥ तथा स्वस्ययनकर्मणि अनेन चतुचेन आज्यसमित्पुरोडाशादिशप्कु- त्यन्तानि त्रयोदश द्रव्याणि जुहुयात् ॥ ८८ सूत्रितं हि । 'विश्वजित् [ ६. १०७] शकधूमम [ ६.१२] भवाशव [११.२] इत्युपदधीत" इति [ कौ०७.१] ॥ “त्वं नो मेधे” इति पञ्चर्चेन सूक्रेन मेधाजननकर्मणि क्षीरोदनं पु- रोडाशं रसान् वा संपात्य अभिमन्य भक्षयेत् || तथा तस्मिन्नेव कर्मणि अनेन सूक्तेन आदित्यम् उपतिष्ठेत ॥ पूर्वस्य मेधाजननानि ” इति प्रक्रम्य सूत्रितम् । “वं नो मेधे [ ६. १ KRPV शीतह° We with ABDK SPJC-CP. २ ABLKKRV नि: कृणोतु. We with D sc.. 1S क्षीरोदनं.