पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ अथर्वसंहिताभाष्ये ता दे॒वाः सम॑कल्पयन्नि॒यं जीवि॑त॒वा अल॑म् ॥ १ ॥ पि॑प्पली | क्षिप्त॒ऽभेषजी । उ॒त । अतिविऽभेषजी । ताम् । दे॒वाः । सम् । अकल्पयन् | इ॒यम् । जीवित | अल॑म् ॥ १ ॥ 1 पिप्पली एतत्संज्ञा कणाद्यपरपर्याया ओषधिः क्षिप्तभेषजी क्षिप्तानि ति- रस्कृतानि अन्यानि भेषजानि यया सा तथोक्ता । यद्वा क्षिप्तस्य वा- तरोगविशेषस्य भेषजी निवर्तिका । उत अपि च अतिविद्धभेषजी अति- शयेन विद्धानि ताडितानि भेषजान्तराणि यया सा तथोक्ता । यद्वा कृ- स्त्र रोगम् अतिविध्यति निपीडयतीति अतिविद्धा । ॐ व्यध ताडने इत्यस्मात् कर्तरि क्तः । अतिविद्धा चासौ भेषजी च अतिविद्ध- भेषजी । तां तादृशीं पिप्पलीं देवा इन्द्रादयः अमृतमथनसमये सम् अकल्पयन् सम्यक् कल्पितवन्तः । कथम् इति । इयम् एकैव ओषधि: जीवितवै सर्वरोगनिवारणेन सर्वान् प्राणिनो जीवयितुम् अलम समर्था शक्ता इत्यभिप्रेत्य । जीव प्राणधारणे इत्यस्मात् ण्यन्तात् तुमर्थे तवै प्रत्ययः ॥ द्वितीया ॥ पि॒प्प॒ल्य: सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑ । यं॑ जी॒वस॒वा॑मह॒ न स रि॑ष्याति॒ पूरु॑षः ॥ २ ॥ पप्पल्यः । सम् । अवदन्त । आऽयतीः | जन॑नात् । अधि । यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॑ष्यात । पुरु॑षः ॥ २ ॥ । हस्तिपिप्पल्यादिजातिभेदभिन्नाः सर्वाः पिप्पल्य: ओषधयः जननाद् अधि अमृतमथनसमकालीनोत्पत्तेरुर्धम् आयती: आयत्यः आगच्छन्त्यः समवदन्त परस्परं संवादं संभाषणम् अकृषत । मुञ्चारणे " इति आत्मनेपदम् । 66 “ व्यक्तवाचां स- उच्यते । यं जीम तत्प्रकार २ P अतिषिद्ध See foot-note on the previous page We with J Cr. : P.PJ C जीवित । ये । ★ BDK C- C„. पिप्प C. ल्य: १. We with ABDKR. ६. PJ. ऋष्या अति । विभ ५Vल्या १.