पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू० ११०.]२४३ षष्ठं काण्डम् । २२३ जीवनवन्तं पुरुषम् अनवामहे वयं भेषजावेन व्यानवाम स पुरुष: न रिष्याति न रिष्यतु न विनश्यविति । आडागमः ॥ रिष हिंसायाम् । लेटि तृतीया ॥ असु॑रास्वा न्यखनन् दे॒वास्वोद॑वप॒न् पुन॑ः । वा॒तीकृ॑तस्य भेष॒जीमथो॑ वि॒प्तस्य॑ भेष॒जीम् ॥ ३ ॥ असु॑राः । त्वा॒ा । नि । अ॒खनन । दे॒वाः । त्वा । उत् । अ॒वप॒न् । पुन॑ः । वा॒तीऽकृ॑तस्य । भेष॒जीम् । अथो॒ इति॑ वि॒तस्य॑ भेष॒जीम् ॥ ३ ॥ हे पिप्पल वा वाम असुरा: पूर्वदेवा: न्यखनन् निखातवन्तः । दे- वा: पुनस्त्वा त्वां सर्वप्राणिहिताय उदवपन् उद्धृतवन्तः । कीदृशीम् । वातीकृतस्य वातरोगाविष्टशरीरस्य भेषजीम् औषधभूताम् । अथो अपि च क्षिप्तस्य मुहुर्मुहुरवयवक्षेपणशीलस्य आक्षेपकनाम्म्रो वातरोगविशेषस्य भेषजीम् निवर्तयित्रीम् ॥ चतुर्थी ॥ प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता नव्य॑श्च सन्ति । स्वां चा॑ग्ने त॒न्वं पि॒प्राय॑स्व॒स्मभ्यं॑ च॒ सौभ॑गमा य॑जस्व ॥ १ ॥ प्र॒नः । हि । कम् । ईड्य॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्य॑ । । . च । सत्सि । स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्वम् । पि॒प्राय॑स्व । अ॒स्मभ्य॑म् । च । सौभ॑गम् । आ। यजस्व ॥ १ ॥ प्रल इति पुराणनाम । हिशब्दः प्रसिद्धौ । कम् इति पूरणः । प्र- लः चिरंतनः खलु अयम् अग्नि: सर्वदेवात्मकत्वात् । “अग्निः सर्वा देवताः” इति श्रुतिः [तै० सं०२.२.९.१] । अत एव ईड्यः स्तुत्यः | अध्वरेषु यज्ञेषु च सनात् चिरंतनो होता देवानाम् आह्वाता होमनिष्पा- दको वा । हे अग्ने ईदृशस्वं नव्यः अभिनवश्च होता भूवा सत्सि वेद्यां