पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ° ११, सू° १११.]२८४ षष्ठं काण्डम् । २२५ सरः ऋ । एनं पुत्रं विश्वा विश्वानि सर्वाणि दुरितानि अति नेषत् अतनयतु अतिक्रमयतु । किमर्थम् । दीर्घायुत्वाय चिरकालजीवनाय तदेव विशेष्यते । शतशारदाय शतं शारदाः शरहतुना युक्ताः संवत्सरा यस्मिन् । शतसंवत्सरपरिमितजीवना येत्यर्थः ॥ 4 षष्ठी ॥ व्या॒घ्रेय॑जनिष्ट वी॒रो न॑त्र॒जा जाय॑मानः सु॒वीर॑: । स मा व॑धीत् पि॒तरं वर्ध॑मानो॒ मा मातरं म मि॑नी॒ज्जनि॑त्रीम् ॥ ३ ॥ व्या॒घ्रे । अहि॑ । अ॒जनि॒ष्ट॒ । वी॒रः । न॒क्ष॒त्र॒ऽजाः । जाय॑मानः । सु॒ऽवीर॑ः । सः । मा । व॒धीत् । पि॒तर॑म् । वर्ध॑मानः । मा । मातर॑म् । प्र । मिनीत् । जनित्रीम् ॥ ६ ॥ व्याघे व्याघवक्रूरे अह्नि उदीरिते पापनक्षत्रे वीरः पुत्रः अजनि- ट जातोभूत् । नक्षत्रजा: दुष्टनक्षत्रे जातः । जनी प्रादुर्भावे । 66 66 " जनसनखनक्रमगमो विट्” । विड्वनोरनुनासिकस्यात् ” इति आ- त्वम् । जायमान एव सुवीर: शोभनवीर्ययुक्तो भवतु । स त- थाविधः पुत्रः वर्धमान : उपचितावयवः प्रबुद्ध सन् पितरम् स्वजन कं मा वधीत् मा हन्तु । [जनित्रीम् ] जनयित्रीम् उत्पादयित्रीं मातरं मा मिनीत मा प्रमिनातु हिनस्तु । K मीङ् हिंसायाम् । लङि तिपि व्यत्ययेन ईत्वम् ४ ॥ [ इति ] चतुर्थ सूक्तम् ॥ 66 “इमं मे अग्ने” इति चतुर्ऋत्रस्य मातृनामगणे पाठाद् "दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात्" [को० १३.२] इत्यादिषु विनियोगो द्रष्टव्यः ॥ तथा गन्धर्वराक्षसाप्सरोभूतग्रहादिपीडाशान्तये घृताक्तसर्वौषधिहोमे च- तुष्पथे ग्रहगृहीतशिरःस्थितमृन्मयकपालाग्निहोमादौ च अस्य विनियोगः । 'मातृनाम्नो: सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति । चतुष्पथे “च शिरसि दर्भेण्ड्वेऽङ्गारकपालेन्वक्तानि | [ तितउनि-] प्रतीपं गाहमानो 1 S’ ‘स्थिते. 2 S´ दर्भेडुककपाले०. We with Kausike. 66