पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० अथर्वसंहिताभाष्ये हीतदारः पुरुषः अङ्गेअङ्गे अवयवेवयवे विबद्धः विविधं बद्धः आर्पितः आर्ति प्रापित: [ उत्थितः ] उत्क्रान्तावस्थितिश्च भवति ते तथाविधाः था- शा वि मुच्यन्ताम् विसृज्यन्ताम् । हि यस्माद् विमुचः विमोक्तारो दे- वाः सन्ति विद्यन्ते । तस्माद् विमुच्यन्ताम् इति संबन्धः । हे पूषन् पोषक देव भ्रूणनि भ्रूणहनि । भ्रूणशब्दो गर्भवचनः । “गर्भो भ्रूण इ- मौ समौ " इत्यभिधानात् । यहा 'कल्पप्रवचनाध्यायी भ्रूण: " इति बो- धायनस्मरणात् कल्पप्रवचनसहितसाङ्गवेदाध्यायी भ्रूणः । तं हतवान् भ्रू- णहा । * “ब्रह्मभ्रूणवृत्रेषु॰” इति भूते किप् । तस्मिन भ्रूण- घ्नि दुरितानि परिवेदनोद्भवानि पापानि मृत्व मार्जय | भ्रूणहा पूर्वमे- व पापी तत्रैव पापायतने इदमपि पापं निवेशयेत्यर्थः ॥ 66 अष्टमी ॥ दे॒वा अ॑मृत॒तम॑स्त्रि॒तं ए॑न॑न्मनुष्येषु ममृजे । ततो यदि वा ग्राहिरान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ॥ १ ॥ 1 त्रि॒ते । दे॒वाः । अ॒मृजत । ए॒तत् । एन॑ः । चि॑तः । ए॒न॒त् । मनुष्येषु । म॒मृते॒ । तत॑ः । यदि॑ । त्वा । ग्राह: । आनशे । ताम् । ते । दे॒वाः । ब्रह्म॑णा । ना- शयन्तु ॥ १ ॥ अत्र इयम् आख्यायिका । पुरा खलु देवा: पुरोडाशादिकं हविः सं- भृत्य तल्लेपजनितपापमार्जनाय एकतो द्वितस्त्रित इति त्रीन् पुरुषान् आ- व्याख्यान अयुदकसंपर्कवशाजनयामासुः । तेषु च तत् पापं निमृष्टव- न्तः । ते च आप्याः सूर्याभ्युदितादिषु परंपरया पापं निमृष्टवन्त इति । तद् एतत् सर्व तैत्तिरीये समाम्नायते । “देवा वै हविर्भुवाब्रुवन् ” [तै° ब्रा० ३.२.४.९] इति प्रक्रम्य “ते देवा आप्येष्वमृजत । आप्या अमृ- “जत सूर्याभ्युदते । सूर्याभ्युदितः सूर्याभिनिर्मुक्ते । सूर्याभिनिर्मुक्तः कुन- ? ABÉDKKRŚPP JVC- Cr नृ° for त्रि. We with Styasa २ ABDK K SC- नं foएनन्.PPJ KC न. We with Bir 1SS 2 पाशं पापं. BS' निमृ'.