पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ अथर्वसंहिताभाष्ये 'तप्यत । तद् अभ्रम् इव समहन्यत" इति [तै० ब्रा०२. २.९.२]। हे पाप्मन् नदीनाम् सरितां तान् प्रसिद्धान् फेनान् फेनिलान् प्रवाहन्ि अनु वि विध्र्व अनुप्रविश्य विविधं गच्छ । "नेर्विशः” इति आत्मनेपदम् । व्यत्ययेन शयो लुक् ४ | अन्यद् व्याख्यातम् ॥ दशमी || इ॒द॒श॒धा निहि॑तं त्रि॒तस्याप॑मृष्टं मनुष्यैन॒सानि॑ । तो॒ यदि॑ वा ग्राह॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ॥ ३ ॥ ॥ 1 इ॒द॒श॒ऽधा । निऽहि॑तम् । त्रि॒तस्य॑ । अप॑ऽमृष्टम् । म॒नुष्य॒ऽए॒न॒सानि॑ । तत॑ः । यदि॑ । त्वा । ग्राहि: । आनशे । ताम् । ते । दे॒वाः । ब्रह्म॑णा । ना- शयन्तु ॥ १० ॥ त्रितस्य आयस्य संबन्धि प्रागुक्तरीत्या अपमृष्टं तद् एन: द्वादशधा निहितम् द्वादशसु स्थानेषु स्थापितम् । प्रथमं देवेषु पश्चात् त्रिषु आप्येषु ततः सूर्याभ्युदितादिषु अष्टसु एवं द्वादशसु स्थानेषु निक्षिप्तम् । तद् एन: मनुष्यैनसानि भवन्ति मनुष्यसमवेतानि इदानींतनानि पापानि संपद्यन्ते । उत्तरोर्धचों व्याख्यातः ॥ पञ्चमं सूक्तम || [ इति ] सायणार्यविरचिते अथर्वसंहिताभाष्ये षष्ठकाण्डे एकादशोनुवाकः ॥ द्वादशेनुवाके पञ्च सूक्तानि । अस्यानुवाकस्य आचार्यमरणे आज्यस- मित्पुरोडाशादिहोमे विनियोगः ॥ तथा खददा॑शयान्नप्रायश्चित्तार्थं यज्ञिकः खदाशयानां व्रीहियवतिलं कृ- वा अनेनानुवाकेन जुहुयात् ॥ तथा तत्रैव कर्मणि पाकयज्ञतन्त्रं कृत्वा वैवस्वतदेवताकं चरुम् अने- नानुवाकेन जुहुयात् ॥ See foot-hote & the previous pag. IS खदाश'.