पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२, सू° ११४.]२७७ षष्ठं काण्डम् । २३३ तथा तत्रैव कर्मणि खददा॑शयान्नं शरावचतुष्टयपरिमितम् अनेन अनु- वाकेन अभिमन्य ब्राह्मणाय प्रयच्छेत् ॥ सूत्रितं हि । “देवहेडनेन मन्त्रोक्तम् । आचार्यायोपदधीत | खदाश- यस्यावपते । वैवस्वतं यजते । चतुःशरावं ददाति" इति [ कौ० ५.१०] ॥ तथा सवान् आधास्यमानः सवा नौ अनेनानुवाकेन आज्यं जुहुयात समिधः शकलान् वा आदध्यात् । सूत्रितं हि । अग्नीन् आधास्यमा- 66 नः सवन् वा दास्यन्” इति प्रक्रम्य 'तस्मिन् देवहेडनेनाज्यं जुहुयात् समिधोभ्यादध्यात् शकलान् वा " इति [ कौ॰७.१] ॥ तथा अन्त्येष्टौ चितानावादीप्ते अनेनानुवाकेन आज्यं जुहुयात् || “याम्यां यमभये ” [ न०क०१७] इति विहितायां याम्याख्यायां म हाशान्तौ " यद् देवा देवहेडनम्” इति अनुवाकम् आवपेत् । तद् उ- क्तं नक्षत्रकल्पे । “यद् देवा देवहेडनम् इति याम्यायाम्” इति [ न० क० १७ ] ॥ " 66 तथा सवयज्ञेषु ब्राह्मौदनिका नौ "यद् देवा देवहेडनम् ” [ ६. ११४] ' यद् विद्वांसः ” [६.११५] “अपमित्यम् अप्रतीत्तम् ” [ ६.११७] ए- तैस्त्रिभिस्तृचैः पूर्णाहुतिं जुहुयात् । सवयज्ञं प्रक्रम्य सूत्रितम् | “ब्रा- 'सौदनिकम अनि मथित्वा यद् देवा देवहेडनम् यद् विद्वांसो यदवि- 'डांस: अपमित्यम् अप्रतीत्तम इत्येतैस्त्रिभिः सूतैरन्वार दातरि पूर्ण- “होमं जुहुयात् ” [ इति · [कौ॰४.४] ॥ " t तथा “यद् देवा देवहेडनम्” इति द्वाभ्यां तृचाभ्याम् अग्निष्टोमे तृ- तीयसवने आदित्यग्रहहोमं ब्रह्मा अनुमन्त्रयेत । अग्निष्टोमं प्रक्रम्य वैताने सूत्रितम् । 'आदित्यग्रहहोमं यद् देवा देवहेडनं द्वाभ्याम्' इति [ वै० ३.१२] ॥ तथा अग्निष्टोम एष तृतीयसवनान्ते आभ्यां तृचाभ्यां सर्वप्रायश्चित्तहो- मान् कुर्यात् । तद् उक्तं वैताने । 'आनीधीये सर्वप्रायश्चित्तीयान् जु- होति" इति प्रक्रम्य 'देवहेडनस्य सूक्ताभ्यां च" इति [वै० ३.१३] ॥ IS' खड्डाश' S' सचानौ S सवानाधास्यन्. We with Kausika. 4S चि- 66 तीयां. We with Kuusin. ३० 66 ,,