पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अथर्वसंहिताभाष्ये 66 अत्र " यद् विद्वांसः " इत्यनेन तृचेन आग्रयणेष्टौ वैश्वदेवं चरुं ब्र झा अनुमन्त्रयेत | आग्रयणेष्टिं प्रक्रम्य "यद् विद्वांसः [६. ११५] द्या- वापृथिवी उपश्रुत्या [२.१६.२] सोमो वीरुधाम [ ५.२४.७] इति वै- श्वदेवद्यावापृथिव्यसौम्यान्" इति [वै०२.४] वैताने सूत्रितत्वात् ॥ तत्र प्रथमा ॥ यद् दे॑वा देव॒हेड॑नं॒ देवा॑सश्च॒कृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्नो यु॒र्य॑मृ॒तस्य॒र्तेन॑ सु॒ञ्चत ॥ १ ॥ यत् । दे॒वः । दे॒व॒ऽहेड॑नम् । देवा॑सः । च॒कृ॒मं । व॒यम् । आदि॑त्याः । तस्मा॑त् । नः॒ । यूयम् । ऋ॒तस्य॑ । ऋ॒तेन॑ । मु॒ञ्चत॒ ॥ १ ॥ हे देवा: अञ्ज्यादयः देवहेळैनम् । * हेळतिः क्रुध्यतिकर्मा । दे- वा: क्रुध्यन्ति येन पापेन । करणे युद् ४ । देवानां क्रो- धकरं यत् पापं देवासः देवाः देवनशीला इन्द्रियपरवशाः सन्तः वयं चक्रम कृतवन्तः । देवास इति । “आज्जसेरसुक् " आज्जसेरसुक्” । “देवसेन- मेषादयः पचादिषु द्रष्टव्याः इति परिगणनाद् इगुपधलक्षणं कं बा- धित्वा अजन्तो देवशब्दः सर्वत्र अन्तोदात्तः । इह तु व्यत्ययेन आयु- दात्तत्वम् । हे आदित्या: अदितेः पुत्रा देवा: यूयं तस्मात् तथा- विधात् पापाद् ऋतस्य ऋतेन । ऋतम् इति यज्ञस्य सत्यस्य च नामधे- यम् । यज्ञसंबन्धिना सत्येन । यद्वा ऋतम सत्यं परं ब्रह्म तत्संबन्धिना प्रणवादिरूपेण मन्त्रेण साधनेन नः अस्मान् मुञ्चत वियोजयत | इन्द्रि- यचापलेन उपार्जितं कृत्स्नं पापं मन्त्रसामर्थेन निर्दहतेत्यर्थः ॥ "" द्वितीया || ऋ॒तस्य॒र्तेना॑दित्या॒ यज॑त्रा मुते॒ह नः॑ । य॒ज्ञं यद् य॑ज्ञवाहस॒ः शिक्ष॑न्तो नोप॑शेकिंम ॥ २ ॥ ऋ॒तस्य॑ । ऋ॒तेन॑ । आ॒दि॒त्याः । यज॑त्राः । मुञ्चत॑ । इ॒ह । १ P चक्रम. - BBD KR SPJCP 'शैकिम. \\' with AKRPv. 1 S' अधिकरण करणे.