पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१२. सू० ११४.]२४७ षष्ठं काण्डम् । २३५ य॒ज्ञम् । यत् । य॒ज्ञऽवाह॒स॒ः । शिक्ष॑न्तः । न । उप॑ऽशेकिम ॥ २ ॥ । यजत्राः । यष्टव्याः यू- हे आदित्या: अदितेः पुत्रा देवाः | ना अपत्येर्थे माग्दीव्यतीयो ण्यप्रत्ययः मिनक्षीत्यादिना [उ०३.१०५] यजेरजन् प्रत्ययः । यम ऋतस्य यज्ञस्य संबन्धिना ॠतेन सत्येन । यद्वा ऋतशब्दद्वयेनापि सत्यम् उच्यते । सत्यस्य सत्येन परब्रह्मणा । श्रूयते हि । “तद् एतत् सत्यस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम्” इति [ वृ॰ आ०२.१. २३] | तेन परब्रह्मणा ध्यातव्येन इह अस्मिन् कर्मणि नः अस्मान् मुञ्चत कर्माधिकारविघातकात सर्वस्मात् पापाद् वियोजयत । ध्यायमानं हि परं ब्रह्म सर्वस्य पापस्य निवर्तकम् । स्मर्यते हि । दिन्यदित्या इत्यादि · " अ- उपपोतकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ य- इति । हे यज्ञवाहसः यज्ञस्य प्रापका निर्वर्तका देवाः वयं यज्ञम ज्योति- ष्टोमादिकं शिक्षन्तः शक्तुं निप्पादयितुम् इच्छन्तः यत् यस्मात् पापाद्धेतो: नोपशेकिम शक्ताः समर्था न भवेम । तस्मात् पापाद् मुञ्चतेत्यर्थः । ज्ञवाहस इति । वहिहाधाञ्भ्यश्छन्दसि [उ०४.२२०] इति वहेरसुन् प्रत्ययः । तत्र णिदित्यनुवृत्तेरुपधावृद्धिः । शिक्षन्त इति । शकु शक्तौ । अस्मात् सनि " सनि मीमा० इत्यादिना अचः स्थाने इस् आदेश: । “अत्र लोपोभ्यासस्य " इति अभ्यासलोपः । शेकिमेति । तस्मादेव धा- तोश्छन्दसे लिटि एत्वाभ्यासलोपौ । क्रादिनियमाद् इट् ॥ तृतीया ॥ 66 99 मेद॑स्वता॒ यज॑माना: स्रुचाज्या॑नि॒ जुह॑तः । अकामा विश्वे वो दे॒वाः शिक्ष॑न्तो नोप॑ शेकिंम ॥ ३ ॥ मेदवता | यज॑मानाः । स्रुचा । आज्या॑नि । जुह्वतः । १PJ Cr उप॑ ऽशेकिम. We with P. २ABKRPJC विश्वे॑. We with D K S P VC. ३DKPV शेकिम. We with ABBKRSPJC-Cr: 1 So S', making the pada of nine syllables. 2' निवतका.