पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अ॒कामाः । वि॒श्वे॑ । वः॒ः । दे॒वाः । शिक्ष॑न्तः । न । उप॑ । शेकिंम ॥ ३ ॥ मेदवता | चतुर्थो धातुर्मेद: । तद्वता स्फीतावयवेन पशुना यजमा- नाः यागं निष्पादयन्तः स्रुचा जुह्वा आज्यानि जुह्वतः आहवनीये प्रक्षि- पन्तः एवंभूता वयम् हे विश्वे देवाः वः युष्माकम् अकामा : कामनार - हिताः । पापवशाद् भयमाना इत्यर्थः । शिक्षन्तः शक्तुं यागानुष्ठानं कर्तुम् इच्छन्तः नोप शेकिम । यस्मात् पापात् न शक्ता भवाम तस्मात् पापान्मुञ्चतेति शेषः ॥ २३६ चतुर्थी ॥ यद् वि॒वा॑सो॒ यदवि॑वा॑स॒ एनसि चकृ॒मा व॒यम् । यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोष॑सः ॥ १ ॥ यत् । वि॒ह्वांस॑ । यत् । अवि॑द्वांसः । एना॑सि । च॒कृ॒र्म॑ । व॒यम् । यू॒यम् । नः॒ । तस्मा॑त् । मु॒ञ्च॒ । विश्वे॑ । दे॒वाः । स॒जोषसः ॥ १ ॥ यत् पापनिमित्तं विद्वांसः जानन्तः यच्च पापनिमित्तम् अविद्वांसः अ- जानाना: ज्ञानाद् अज्ञानाद् वा वयम् एनांसि पापानि चकूम कृतव- न्तः हे विश्वे देवाः सजोषस: सह प्रीयमाणा यूयं तस्मात् प्रागुक्तात् पा- पाद् नः अस्मान् मुञ्चत ॥ पञ्चमी ॥ यद् जाग्रद् यद् स्वपन्नेन॑ ए॒न॒स्योक॑रम् । भू॒तं मा॒ तस्मा॒द् भव्य॑ च द्रुप॒दादि॑व मुञ्चताम् ॥ २ ॥ यदि॑ । जग्र॑त् । यदि॑ । स्वप॑न् । एन॑ः । ए॒न॒स्यः॑ । अक॑रम् । । भूतम् । मा॒ । तस्मा॑त् । भव्य॑म् । च॒ । द्रुप॒दाऽइ॑व । मु॒ञ्चताम् ॥ २ ॥ 1 एनः पापं प्रियम् अस्य एनसि साधुरिति वा एनस्य: अज्ञानाद् ई- दृशोहं जाग्रत् जागरावस्थापन्नः सन् | यदिशब्दः यद् इत्यर्थे । यद् एनः

PJ K C. विश्वं. We will PC/. २ PK शकिम. We with PJ.CP. 3 Such

is the arment ofall Mss and Viridikes. ४ P च॒कृम्. We with PJ Cr. C पुनर्म्याः We wit, PJK. 'A