पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२, सू०११५.]२६८ षष्ठं काण्डम् | २३७ 66 66 त- पापम् अकरम् कृतवान् अस्मि । तथा स्वपन् स्वप्नावस्था प्राप्तः सन् यदि [ यत् ] पापं कृतवान् अस्मि । ४ जाग्रत् इति । जागृ निद्राक्ष- ये । अस्मात् लट: शत्रादेशः । अदादित्वात् शपो लुक् । जक्षित्याद- यः षट्” इति अभ्यस्तत्वाद् "नाभ्यस्ताच्छतुः " इति नुमभावः । अ- करम् इति । 'कृमृहरुहिभ्य: " इति हे: अङ् आदेश: । स्माद् उभयविधात् पापाद् भूतम् लब्धसत्ताकं प्राणिजातम् । भविष्यास- ताकं प्राणिजातं भव्यम् । * "भव्यगेय " इत्यादिना “अचो यत्" इति कर्तरि यत् । 'यतोनावः” इति उदात्तत्वम् । लोकौ भूतभव्यशब्दवाच्यौ । तथा च तैत्तिरीयकम् । 'भूताय स्वाहा- भविष्यते स्वाहेति भूताभव्यौ होमौ जुहोति । अयं वै लोको भूतम “असौ भविष्यत्" इति [तै ब्रा० ३.६.१.५] ते उभे भूतभव्ये मा मां द्रुपदादिव । पादवन्धनार्थो द्रुमो द्रुपदः । तस्मादिव मुञ्चताम् वि- योजयताम् ॥ 66 66 या इमौ 66 पष्ठी ॥ प॒दादि॑व मुमुच॒ानः स्वि॒न्नः स्ना॒त्वा मलदिव | पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ॥ ३ ॥ दु॒प॒दाऽइ॑व । मु॒मु॒च॒नः । स्वि॒न्नः । स्ना॒त्वा । मला॑ऽइव । पू॒तम् । प॒वित्रे॑ण । । आज्य॑म् । विश्वे॑ । शु॒म्भ॒न्तु॒ । मा॒ा । एन॑सः ॥ ३ ॥ द्रुपदादिव काष्ठमयात् पादबन्धनादिव पापाद् मुमुचान: विमुच्यमा- नः । व्यत्ययेन यकः श्रुः । यद्वा मुचेलिंट: कानच् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । तथा स्विन्नः स्वेदयुक्तः पुरुषः स्नात्वा अप्सु निमज्य मलादिव यथा देहाश्रिताद् बाह्यमलाद् वियुज्यते एवं पापाद् वियुज्यमानः । भवानीति शेषः । तथा पवित्रेण पवनसाधनेन पूनम शोधितम् अन्यमिव तद् यथा निष्कल्मषं भवति एवं मा मां विश्वे सर्वे देवा; एनस: पापाद् शुम्भन्तु शुद्धं कुर्वन्तु ॥ 9 [ इति ] द्वादशेनुवाके प्रथमं सूक्तम् ॥