पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ अथर्वसंहिताभाष्ये “यद् यामं चक्रुः” इति तूचेन घृततैलमधूनां परिमितानां वृद्धिक्षय- लक्षणाद्भुतप्रायश्चित्तार्थम् आज्यं जुहुयात् । सूचितं हि । “अथ यत्रैतत् सर्पिर्वा तैलं वा मधु वा विस्पन्दयते यद् यामं चक्रुर्निखनन्तो अग्र इत्येतेन सूक्तेन जुहुयात् सा तत्र प्रायश्चित्तिः” इति [को० १३.४० ]॥ “अपमित्यम् अप्रतीत्तम्” इति त्रिभिस्तृचैः उत्तमणें मृते सति तत्पु- त्राय सगोत्राय वा धनम अभिमन्त्य ऋणी दद्यात् || तथा अनेन तृचत्रयेण द्रव्यम् अभिमन्त्य उत्तमर्णस्य श्मशानभूमौ चतुष्पथे वा निक्षिपेत् ॥ तथा तृचत्रयेण द्रव्यम् अभिमन्य कक्षेषु निक्षिप्य तान् अग्निना दीपयेत् ॥ “सूतिं हि । “अपमित्यम् अप्रतीत्तम् इत्युत्तमर्णे मृते तदपत्याय प्र- यच्छति । सगोत्राय । श्मशाने निवपति । चतुष्पथे च । कक्षान् आ- दीपयति" इति [को० ५.१०] ॥ तथा अस्य तृचत्रयस्य सवयज्ञेषु पूर्णहोमे विनियोग उक्तः ॥ तथा लौकिकाग्निना शालादाहे तच्छान्यर्थम् अनेन तृचत्रयेण व्रीहि यवगोधूमादिमिश्रधान्यैः पूर्णाञ्जलिं जुहुयात् । सूत्रितं हि । अथ य- 66 ' त्रैतद् ग्राम्योग्नि: शालां दहत्यपमित्यम् अप्रतीत्तम् इत्येतैस्त्रिभिः सूतै- 'मैश्रधान्यस्य पूर्णाञ्जलिं हुवा” इति [ कौ० १३.४१] ॥ तथा अग्निष्टोमावसाने गार्हपत्याग्नेररण्योरात्मनि वा समारोपणानन्त- रम् उपोष्यमाणां वेदिम अपमित्यम इत्यनेन अनुमन्त्रयेत । “अपमि- त्यम् अप्रतीतम् इति वेदिम उपोष्यमाणाम्" इति वैतानात् [वै॰ ३.१४] ॥ ८८ ८८ (6 तत्र मथमा ॥ यद् याम॑ च॒क्रुनि॒खन॑न्तो॒ अग्रे कार्षीवणा अन्न॒विद्रो॒ न वि॒द्यया॑ । वैवस्वते राज॑नि तजु॑होम्यर्थ यज्ञियं मधु॑मदस्तु नोन्न॑म् ॥ १ ॥ 1 यत् । यामम् । च॒क्रुः । नि॒िऽखन॑न्तः । अग्रे॑ । कार्षीवणाः । अ॒न्त॒ऽविद॑ः । न । विद्यया॑ । 1S' विष्पंदते. 28 उत्तमवर्णे. 3S उत्तमवर्णस्य. 1S स्मशा. 5S अपोह्यमाणां. We with Kans' ila. 6S' वेदिमपोह्यमाणामिति We with the Faitdna and its com. mentators.