पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू०११६.]२६९ षष्ठं काण्डम् । २३९ वै॒व॒स्व॒ते । राज॑नि । तत् । जुहा॑मि॒ । अच॑ । य॒ज्ञिय॑म् । मधु॑ऽमत् । अ॒स्तु । नः । अन्न॑म् ॥ १ ॥ · कार्षीवणा: कृषिं वनन्ति संभजन्त इति कृषीवनाः शूद्राः । तत्संब- न्धिनः कर्मकरा: कार्षीवणाः । ते अग्रे पुरा भूमिं निखनन्तः कृषन्तः यद् यामं यमसंबन्धि क्रूरं यत् कर्म चक्रुः कृतवन्तः । तत्र कारणम् आह नै विदो न विद्यया इति । यस्मात् ते विद्यया विशेषज्ञानेन नोप- लक्षिताः अत एव नं विदः न वेदितारः कार्याकार्यविभागज्ञानशून्या: त स्माद् यामं कर्म कृतवन्त इत्यर्थ: । यहा अग्रे पुरा भूमिं निखनन्तः असुराः यद् यामं यमसंबन्धि प्राणापहरणनिमित्तं क्रूरं कर्म कृतवन्तः । तेहि 'असुरा वै निर्यन्तो देवानां प्राणेषु वलगान् न्यखनन्” इति [तै॰सं॰ ६.२,११,२] । तत् कर्म कार्षीवणा अज्ञजनाः न विदो न जानन्ति । विदुरित्युकारस्य व्यत्ययेन अकारः । यतस्ते वि द्यया संस्कृतबुद्ध्या न भवन्ति । विशेषज्ञानशून्या इत्यर्थः । तत् तत्र अद्भुतशमने न्यूनाधिकपरिमाणोपेतं तत् आज्यमधुतैलादिकं वैवस्वते वि वस्वान् आदित्य : तस्य पुत्रे राजनि ईश्वरे यमे जुहोमि हविवेन प्रक्षि- पामि । अथ अद्भुतशमनानन्तरं यज्ञियम् यज्ञार्ह तद् अन्नं मधुमत् माधुर्योपेतं [नः ] अस्माकं भोक्तुं योग्यम् अस्तु ॥ द्वितीया ॥ वैवस्व॒तः कृ॑णवद् भाग॒धेयं मधु॑भागो मधु॑ना॒ सं सृ॑जाति । मा॒ातुर्यदेन॑ इषतं न आगन् यद् वा॑ पि॒ताप॑राद्धो जिहीडे ॥ २ ॥ वै॒व॒स्व॒तः । कृ॒णवत् । भा॒ग॒ऽधेय॑म् | मधु॑ऽभागः | मधु॑ना । सम् । सृ॒जा॒ाति॒ । मा॒तुः । यत् । एन॑ । इ॒ष॒तम् । नः॒ । आ॒ऽअग॑न् । यत् । वा॒ा । पि॒ता । अ- प॑ऽराद्धः । जि॒ह्वीडे ॥ २ ॥ वैवस्वनः विवस्वतः पुत्रो यम: भागधेयम् आत्मार्थ हविर्भागं कृणवत् करोतु । मधुभाग: माधुर्योपेतहविषा भागेन युक्त संन् मधुना माधु- IS' `निमित्तक्रूरं.