पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ अथर्वसंहिताभाष्ये तमर्णाय प्रत्यर्पयामः । एतदेव विवृणोति । जीवाः इह लोके जीवन्त एव जीवेभ्य: जीवय उत्तमर्णेभ्यो देहत्यागात् पुरैव एनद् ॠणं नि ह- राम: नितरां नियमेन वा अपाकुर्मः । धान्यं ब्रीहियवादिकम् उत्तमर्ण- सकाशाद् अपमित्य प्रस्थाढकादिसंख्यया परिवृत्य गृहीत्वा यद् अहं ज- घस भक्षितवान् अस्मि अपमित्येति । अपपूर्वात मेङ: "उदीचां ८८ माङो व्यतीहारे” इति का प्रत्ययः । त्यबादेशे "मयतेरिदन्यतरस्याम्” इति इत्त्वम् । “हूस्वस्य पिति" इति तुक् । जघसेति । 'लिट्यन्य- तरस्याम्” इति अदेलिंटि उत्तमैकवचने घस्ऌ आदेशः । ‘णल उत्तमो वा” इति णित्त्वस्य विकल्पनाद् वृद्ध्यभावः । हे असे इदम इ- दानीं तत् तस्मात् परकीयधान्यभक्षणात् त्वत्प्रसादेन अनृण: ऋणरहितः ऋणनिमित्तनरकपातरहितो भवामि । ॐ अनृण इति । बहुव्रीहो 'नञसुभ्याम्” इति उत्तरपदान्तोदात्तत्वम् ॥ 66 षष्ठी ॥ अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिन् तृतीये॑ लो॒के अ॑नृ॒णाः स्या॑म । ये दे॑व॒याना॑ पितॄयाणा॑श्च लो॒काः सर्वा॑न् प॒थो अ॑नृ॒णा आ क्षियेम ॥ ३ ॥ अनृणा: । अ॒स्मिन् । अ॒नृ॒णाः । पर॑स्मिन् । तृतीये॑ । लो॒के । अनृ॒णाः । स्याम् । ये । दे॒व॒ऽयाना॑ः । पि॒तु॒ऽयाना॑ः । च॒ । लो॒काः । सर्वा॑न् । प॒थः । अ॒नृ॒णाः । आ । क्षियेम ॥ ३ ॥ 66 हे अग्ने त्वत्प्रसादाद् अस्मिन् भूलोके अनृणाः । ऋणम् अत्र लो- किकं वैदिकं च परिगृह्यते । लौकिकं तावद् उत्तमर्णाद् गृहीतं हिरण्य- धान्यादिकं प्रसिद्धम् । वैदिकं तु जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते । ब्रह्मचर्येणं ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति [तै ० सं० ६.३.१०.५]। तेन सर्वेण ऋणेन रहिताः स्याम भवेम । परस्मिन् लोके स्वर्गादौ एतद्देहपरित्यागेन दिव्यशरीरपरिग्रहेण सुकृतफलभोगस्था- नेपि अनृणा: स्याम । ऋणादाननिमित्तो भोगप्रतिबन्धस्तत्रापि मां भूद् 15o S'. The Vainlika reading is ब्रह्मचर्येणर्षि ०.