पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ अथर्वसंहिताभाष्ये आदेशः । अत्र लोपोभ्यासस्य' इति अभ्यासलोपः । “पूर्ववत् स नः" इति आत्मनेपदम् । हे उग्रंपश्ये तीक्ष्णदर्शने । "उ- ग्रंपश्येरंमदपाणि॑िधमा” इति खशि निपात्यते । हे उग्रजितौ उ- ग्रान् उहूर्णबलान् प्रतिकर्तुम् अशक्यान् शत्रून् जयत इति उग्रजितौ । तत्रैका उग्रंपश्या । अपरा उग्रजित् । युगपदधिकरणवाचिवाद् वृ " एतन्ना- क्षौ च वृक्षौ च वृक्षौ इतिवद् उभयत्रापि द्विवचनम् छु । मानौ अप्सरसौ अद्य इदानीं नः अस्माकं तत् प्राग् उदीरितम् ऋणम अनु दत्ताम् आनुकूल्येन उत्तमणेभ्यः प्रयच्छतम् ॥ द्वितीया || उपश्ये॒ राष्ट्रभृत् किल्बिषाणि॒ यद॒क्षवृ॑त्त॒मनु॑ दत्तं न ए॒तत् । ॠणान्न॒नो॒ नर्णमेस॑मानो य॒मस्य॑ लो॒के अधिरज्जुराय॑त् ॥ २ ॥ उ॒ग्रे॑पश्ये॒ इत्यु॒ग्र॑म्ऽपश्ये | राष्ट्रऽभृत् । किल्बिषाणि । यत् । अ॒क्षऽवृ॑तम् । अनु॑ । द॒त्त॒म् । नः॒ । एतत् । ॠणात् । नः । न । ॠणम् । एत्स॑मानः । य॒मस्य॑ । लो॒के । अधि॑ऽरज्जुः । आ । अयत् ॥ २ ॥ हे उग्रंपश्ये । राष्ट्रभृतः पृथगुपादानाद् अत्र एकवचनान्तम् एतत् । हे राष्ट्रभृत राष्ट्र राज्यं विभर्ति पोषयतीति राष्ट्रभृत् । एतत्संज्ञे अप्सरसौ यानि अस्माभिः कृतानि किल्बिषाणि पापानि यच्च पापम् अक्षवृत्तम् अक्षेषु इन्द्रियेषु निषिद्धानिषिद्धविभागपरिहारेण स्वस्वविषयप्रवृत्तेषु निष्प- ॐ “तत्पुरुषे तुल्यार्थ” इत्यादिना सप्तमीपूर्वपदप्रकृतिस्वर- नम् । त्वम् । नः अस्माकम् ऋणभूतम् एतत् सर्व पापम् अनु दत्तम आनुकूल्येन यथास्मान् न बाधते तथा दत्तम प्रयच्छतम् । निवारय- तम् इत्यर्थः । अनुदानप्रकारम् आह । ऋणान्त्र इति । ऋणान् ऋणि भावार्थीयः अकार: है । अनपाकृतिनों नः असरान् । यद्धा ऋणात् इति पदच्छेदः । भावप्रधानो निर्देशः ४ । ऋणित्वा- 1 S' चेतिच' fior इतिव, 2S' अनपाकृतिनां.