पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ अथर्वसंहिताभाष्ये वैश्वान॒रः । नः॒ । अ॒धि॒ऽपाः । वसि॑ष्ठः । उत् । इत् । नया॒ाति॒ । सु॒ऽकृ॒तस्य॑ । लोकम् ॥ १ ॥ अदीव्यन व्यवहर्तुम् अशक्नुवन् यद् ऋणम् अहं कृणोमि करोमि हे अग्ने अदास्यन् पुन: प्रदानम् अकरिष्यन् । उतशब्द: अप्य- संगृणामि दास्यामीति केवलं प्रतिजानामि ।

  • गू श-

दे । प्वादित्वात् ह्रस्वः । वैश्वानरः विश्वनरहितः सर्वेषां प्राणिना हितकारी अत एव अधिपाः अधिकं पालयिता वसिष्ठः वासयितृतमः एवंभूतोनिः सुकृतस्य पुण्यकर्मण: फलभूतं लोकम् [नः अस्मान्] उन्न- याति उन्नयतु ऊर्ध्वं प्रापयतु । ॐ इतशब्दः अवधारणे । यमेव नयत्वित्यर्थः ॥ स्व- पञ्चमी ॥ वै॒श्वा॒न॒राय॒ प्रति॑ वेदयामि॒ यद्य॒णं सैग॒रो दे॒वता॑सु । स ए॒तान् पाशा॑न् वि॒चृते॑ वेद॒ सर्वानथ॑ प॒केन॑ स॒ह सं भ॑वेम ॥ २ ॥ वै॒श्वा॒न॒राय॑ । प्रति॑ । वे॒द॒यामि॒ । यदि॑ । ॠणम् । स॒मऽग॒रः । दे॒वता॑सु । सः । ए॒तान् । पाशा॑न् । वि॒ऽच॑त॑म् । वेद॒ | सर्वा॑न् । अथ॑ । प॒क्वेन॑ । स॒ह । सम् । भवे ॥ २ ॥ वैश्वानराय विश्वनरहिताय अग्नये प्रति वेदयामि विज्ञापयामि । किं तद् इत्याह यघृणम् इति । यदिशब्दो यच्छदार्थः । यद् ऋणं लौकि- कम देवतासु देवताविषये यः संगर: अवश्यकर्तव्यतया प्रतिज्ञा “ब्रह्मचर्ये- ण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” [तै० सं० ६.३.१०. ५ ] इति तद्धि वैदिकम ऋणम् । तत् सर्व वैश्वानराय निवेदयामीत्यर्थः । स तादृशो वैश्वानरोग्निः एतान् लौकिकवैदिकऋणात्मकान् सर्वान् पाशान् पाशवद्द- न्धकान् विचृतम् विचर्तितुं विश्लेषयितुं वेद जानाति । विचूतम् इति । विपूर्वाच्चृतेः तुमर्थे कमुल् प्रत्ययः । अथ ऋणरूपपाशच्छे- दनानन्तरं पकेन परिपक्केन स्वर्गादिफलेन सह वयं सं भवेम संगच्छेमहि || P वृत॑म् . १