पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२, सू० १२०.]२९३ षष्ठं काण्डम् । षष्ठी ॥ वै॒श्वा॒न॒रः प॑वि॒ता मा॑ पुनातु॒ यत् स॑ग॒रम॑भि॒धावा॑म्या॒ाशाम् । अनजानन् मन॑सा याच॑मानो॒ यत् तत्रेनो॒ अप॒ तत् सु॑वामि ॥ ३ ॥ वैश्वान॒रः । पवि॒ता । मा । पुनातु । यत् । समऽगरम् । अ॒भि॒ऽधावा॑मि । आशाम । 1 अना॑जानन् । मन॑सा । याच॑मानः । यत् । तत्रे । ए॑न॑ः । अप॑ । तत् | सु- वाम ॥ ३ ॥ पविता शोधयिता सर्वभावानां शुद्धेः कर्ता वैश्वानरोग्निः मा मा पु- नातु पूतं शुद्धं करोतु । यत् यस्माद्धेतोः संगरम् प्रतिज्ञाम यक्ष्ये दास्यां- मीत्येवरूपाम् ऋणापाकरणविषयां केवलम् अभिधावानं आभिमुख्येन प्रामवानि तथा आशाम देवादीनाम् अभिलाषमेव उत्पादयामि न किं- चिद् यागादिरूपम् ऋणापाकरणं करोमि अनाजानन् हिताहितविभा- गम् अजानन् प्रत्युत मनसा अन्तःकरणेन ऐहिकमेव सुखं याचमानः प्रार्थयमानः । उभयत्र लक्षणहेत्वोः क्रियाया इति हेतौ शतृप्रत्य- अज्ञानाद् विपर्ययज्ञानाञ्च हेतोरित्यर्थः । तत्र तथाविधे अ- नृतकरणे यद् एन: पापम् उत्पन्नम् अस्ति तद् अप सुवामि अस्मत्तो- पगमयामि । ॐ षू प्रेरणे । तुदादित्वात् शः ॥ यः । ॥ इति ] तृतीयं सूक्तम् ॥ 66 'यद् अन्तरिक्षम्” इति चतुर्थं सूक्तम् । तत्र 'विषाणा पाशान्" इति चतुर्ऋचेन दारुलोहरज्वादिबन्धनमोचनार्थं चर्ममयलोहमयादिकं पू- र्वबन्धनरज्जुसदृशं कृत्वा संपात्य अभिमन्त्रयेत । सूत्रतं हि । 66 66 २४७ विषाणा पाशान् इत्युन्मोचनम् । प्रतिरूपं संपातवन्तं करोति । वाचा बद्धाय “भूमिपरिलेखम्” इति [ कौ० ७.३] ॥ तत्र प्रथमा ॥ यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मातरं पितरं वा जिहंसि । १ PJ पुनः. We with PK Cr.