पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अ॒यं तस्मा॒द् गाह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥ १ ॥ यत् । अ॒न्तरि॑क्षम् । पृथि॒वीम् । उ॒त । द्याम् । यत् । मा॒तर॑म् । पि॒तर॑म् । वा । जिहंसिम । अयम् । तस्मा॑त् । गार्हेऽपत्यः । नः॒ः । अ॒ग्निः । उत् । इत् । नयाति॒ । सुऽकृ- तस्य॑ | लोकम् ॥ १ ॥ । २४७ अन्तरिक्षादिशब्देर्लोकवचनैस्तत्रया जना लक्ष्यन्ते । अन्तरिक्षम अन्त- रिक्षलोकस्थान जनान् पृथिवीम् भूलोकं तत्रन्यान् जनान् । उत्तशब्दः अप्यर्थः समुच्चये । द्याम् दिवं द्युलोकस्यांश्च जनान् यजिहिंसिम । त- तद्विषयहिंसया यत् पापं कृतम् इत्यर्थः । तथा मातरम् जनयित्रीं पि- तरम् जनकम् । वाशब्द: समुच्चये । यज्जिहिंसिम । तयोः प्रतिकूला- चरणलक्षणाद्धिंसनाद् यत् पापम् उपार्जितम् इत्यर्थः । हिसि हिंसायाम् । अस्मात् लिटि रूपम् । तस्माद् उभयविधात् पा- पाद् अयं गार्हपत्यः गृहपतिना संयुक्त: अस्माभिः परिचर्यमाणोग्निः नः अस्मान् [ सुकृतस्य लोकम् इत् सुकृतपरिपाकस्य लोकं स्वर्गमेव ] उ- न्नयाति उन्नयतु उद्गमयतु । पापाद् उत्तारयत्वित्यर्थः । इति । “गृहपतिना संयुक्ते ज्य: ” इति ञ्यप्रत्ययः ॥ द्वितीया || ॐ गार्हपत्य 66 भूमिर्मातादितिनों जनित्र॑ भ्राता॒न्तरि॑क्षम॒निश॑स्या नः । द्यौन॑ः पि॒ता पित्र्या॒च्छं भ॑वाति जा॒मिमृत्वा माव॑ पत्सि लो॒कान् ॥ २ ॥ भूमिः । माता । अदि॑ितिः । नः । जनित्र॑म् । भ्राता॑ । अन्तरि॑क्षम् । अभिऽर्श- स्त्यां । नः । द्यौः । नः । पि॒ता । पित्र्या॑त् । शम् । भवाति॒ । जामिम् । ऋ॒त्वा । मां । अव॑ । प॒त्स॒ | लोकात् ॥ २ ॥ नः अस्माकं भूमिः पृथिवीदेवता माता जननी । अदितिः अखण्ड- १ D KC लोकान. २ Soon pala Mss. ३PPJCP मा rongly. }}