पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू० १२१.]२९४ षष्ठं काण्डम् । २५१ अ॒यं तस्मा॒द् गार्हपत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥ २ ॥ यत् । दारु॑णि । ब॒ध्यमे॑ । यत् । च॒ । रज्ज्वा॑म् । यत् । भूभ्या॑म् । ब॒ध्यमे॑ । यत च । वाचा । अ॒यम् । तस्मा॑त् । गार्हऽपत्यः । नः॒ः । अ॒ग्निः । उत् । इत् । नयाति । सुऽकृ- तस्य॑ । लो॒कम् ॥ २ ॥ हे पुरुष त्वं दारुणि काष्ठविशेषे यद् बध्यो । यच्च रज्ज्वां बध्यसे । भूम्यां वा गर्तरूपायां यद् बध्यसे । वाचा जाज्ञाप्रकाशिन्या यच्च ब- ध्यसे । तस्मात् सर्वस्माद् बन्धनाद् अयम् अस्मदीयो गार्हपत्योग्निः त्वाम् उत्तारयत्वित्यर्थः । [शेषं पूर्ववत् ] ॥ उद॑गातां भगवती वि॒तौ नाम॒ तार॑के । प्रेहामृत॑स्य यच्छतां प्रैतुं बद्धक॒मोच॑नम् ॥ ३ ॥ उत् । अ॒गा॒ताम् । भग॑वती॒ इति॒ भग॑ऽवती । वि॒ऽचृतौ । नाम॑ । तार॑के॒ इति॑ । म । इ॒ह । अ॒मृत॑स्य । य॒च्छताम् । प्र । एतु । व॒द्धकऽमोच॑नम् ॥ ३ ॥ भगवती भाग्ययुक्ते विचृतौ नाम विचनामनी तारके नक्षत्रे उदगा- नाम उदयं प्राप्तवती । “विचृतौ नक्षत्रं पितरो देवता" इति श्रुतेः [ तै● सं० ४.४.१०.२] मूलनष्ठत्रस्य विचृत् इति संज्ञा | अधिष्ठानद्वया- पेक्षया द्विवचनम् । इह अस्मिन् बद्धे पुरुषे अमृतस्य । र्मणि षष्ठी । अमृतम् अमरणं प्र यच्छताम् । बद्धकमोचनम् कु- त्सितं निगलादिभिर्बद्धः बद्धकः । कुत्सायां कन् प्रत्ययः । त- स्य मोचनं बन्धान्मोक्ष: मैतु प्रामोतु ॥ 2. क- सप्तमी ॥ वि जिहीष्व लो॒कं कृ॑णु ब॒न्धान्मु॑ञ्चासि॒ बच॑कम् । योन्या॑ इव॒ प्रच्यु॑तो॒ गर्भैः प॒थः सर्वा॒ अनु॑ यि ॥ ४ ॥ See foot-note ३ on the previous page. २३ वृतौ