पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ अथर्वसंहिताभाष्ये वि । जि॒हीष्व | लोकम् । कृणु । बन्धात् । मुञ्चा॒ासि॒ । बज्र॑कम् । योन्या॑ऽइव | प्र॒ऽच्यु॑तः । गर्भैः । प॒थः । सर्वा॑न् । अनु॑ । क्षि॑य॒ ॥ ४ ॥ ओहाङ् हे बन्धनाभिमानिदेव त्वं वि जिहीष्व विविधं गच्छ । गतौ । शपः श्रुः । भृञाम इत्" इति अभ्यासस्य इत्वम् । लोकं स्थानम् अस्य पुरुषस्य बन्धनार्तस्य कृणु कुरु । तस्माद् [बन्धात्] ब- न्धनाद् बद्धकम इमं पुरुषं मुञ्चासि मुञ्च ॥ हे पुरुष बन्धनमोक्षानन्तरं योन्या: प्रच्युतः मातुर्गर्भाशयाद् बहिर्विनिर्गतो गर्भ इव स यथा इत स्ततः अनिरुद्धगतिः प्रचलति एवं सर्वान् पथो मार्गान् अनु क्षिय अ नुगच्छ । यथेष्टं वर्तस्वेत्यर्थः । क्षि निवासगत्योः ॥ [इति ] चतुर्थ सूक्तम ॥ " ८८ “ एतं भागम् ” “ एतं सधस्था: " इति द्वाभ्यां सवयज्ञेषु संस्थितहो- मान् जुहुयात् । तदनुमन्त्रणं च कुर्यात् । सूत्रितं हि । “एतं भागम “[६. १२२] एतं सधस्था: [ ६. १२३] उलूखले [१०.९.२६] इति सं “स्थितहोमान् आवपतेऽनुमन्त्रणं च” इति [कौ°४,४] ॥ 66 1 तथा अग्निष्टोमे हविर्धाने स्वस्वचमससमीपे चमसिभिः स्वकीयान् पि- हुन् उद्दिश्य पुरोडाशशकलेषु दत्तेषु सत्सु आभ्याम् अनुमन्त्रयेत । उक्तं वैताने 'हविर्धाने यथाचमसं दक्षिणतः स्वेभ्य उपासनेभ्यस्त्रींस्त्रीन पुरो- 'डाशसंवर्तान एतत् ते मततामह [१७. ४. ७५] इति निपृणन्ति । अ- “त्र पितरः [कौ ०११.९] इति जपित्वा एतं भागम [६. १२२] एतं सध- “स्थाः[६॰ १२३] श्येनो नृचक्षा: [७, ४२.२] इत्यनुमन्त्रयते” इति [ वै० ३.१२] ॥ अत्र “ एतं सधस्था : ” इति द्वाभ्यां ब्रह्मा वैश्वकर्मणहोमान् अनुमन्त्र- येत । “एतं सधस्थाः [ ६. १२३. १, २ ] इति द्वे येनासहस्रम् [९. ५. १७] इति वैश्वकर्मणहोमान्" इति [वै० ५.२] वैतानसूत्रात् ॥ 66 'शुद्धा: पूता: " इत्यनया सवयज्ञेषु ऋत्विजां हस्तप्रक्षालनार्थम् उदकं दद्यात् । सवयज्ञान प्रक्रम्य सूत्रितम् । चतुर आर्षेयान भृग्वाङ्गिरोविद उपसादयति शुद्धाः पूता इति मन्त्रोक्तम्" इति [कौ°४.४] ॥ 66