पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ अथर्वसंहिताभाष्ये वत्वम् । या युवयोः संबन्धि ब्राह्मणेभ्यो देयं पक्कम् अन्नम् । एतच्च स्मृतिविहितस्य वापीकूपतटाकनिर्माणादेः पूर्तस्य उपलक्षणम् । य- ऋच अन्नम् अग्नौ परिविष्टम् हवीरूपेण देवतार्थं प्रक्षिप्तम् । एतच्च इष्ट- शब्दवाच्यस्य अग्निहोत्रदर्शपूर्णमासादेर्यागस्य उपलक्षणम् । तस्य इष्टापूर्त- स्य गुप्तये रक्षणाय हे दंपती युवां सं श्रयेथाम् संसेवेथाम् । *श्रिञ् सेवायाम् ॥ चतुर्थी ॥ य॒ज्ञं यन्तं॒ मन॑सा बृह॒न्त॑म॒न्वारो॑हामि॒ तप॑सा सयौनिः । । उप॑हूता अग्ने॑ ज॒रस॑ प॒रस्ता॑त् तृतीये॒ नाकै सध॒माद॑ मदेम ॥ ४ ॥ य॒ज्ञम् । यन्त॑म् । मन॑सा । बृ॒हन्त॑म् । अ॒नु॒ऽआरो॑हामि । तप॑सा । सऽयोनिः । उप॑ऽहूताः । अ॒ग्ने॒ । ज॒रस॑ । पु॒रस्ता॑त् । तृ॒तये॑ । नाके॑ । स॒ध॒ऽमाद॑म् । म॒दे॒म् ॥ ४ ॥ यज्ञम् अस्माभिः कृतं यागं यन्तम् देवान् गच्छन्तं बृहन्तम् महा- न्तं मनसा बुद्धया अहम् अन्वारोहामि अनुप्रविश्य तत्रैव तिष्ठामि । कथंभूतः । तपसा अनशनादिरूपेण दीक्षानियमेन सयोनिः । योनिः दिव्यदेहोत्पत्तिबीजम् अपूर्वम् । तत्सहितः । यदि हि यजमानस्तपस्वी भवति तदा यज्ञस्तेन संबद्धो भवति । “योतपस्वी स्याद् असंश्लिष्टो- स्य यज्ञ: स्यात् । तपस्वी स्यात् । यज्ञमेव तत् संश्लेषयत इति वि ज्ञायते” इति स्मरणात् । सर्वथा यजमानेन तपस्विना भवितव्यम् इ- त्यभिप्राय: । यद्वा यज्ञम् यज्ञसाधनं यष्टव्यं वा अग्निं यन्तम् अस्मदीयं हविरादाय देवान् गच्छन्तम् इति योज्यम् । X यज देवपूजादौ । 'यजयाच" इत्यादिना भावे अकर्तरि च कारके नङ् प्रत्ययः । यन्तम् इति । एतेर्लट: शत्रादेशे "इणो यण्” इति यण् । हे अग्ने उ- पहूताः त्वया अनुज्ञाता जरसः परस्तात् चिरकालम् इह लोके उषित्वा जरसः परस्तात् जराया ऊर्ध्वम् । "जराया जरस् अन्यतरस्याम्" इति जरस् आदेश: ४ । जीर्णम इदं मानुषशरीरं परित्यज्य तृतीये 66