पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७ अथर्वसंहिताभाष्ये हे सधस्थाः । सह तिष्ठन्ति एकत्र स्वर्गे लोके स्थाने यजमानेन सह निवसन्तीति सधस्या देवाः । ४" सुपि स्थ: " इति तिष्ठतेः कम- त्ययः । “सध मादस्थयो: ०” इति सहस्य सधादेश: ४ । हे सहाय- भूता देवा: एतं हविर्भागं वः युष्मभ्यं परि ददामि । परिदानं रक्षणार्थ दानम् । यं भागं शेवधिम निधिरूपं जातवेदाः जातानां वेदिता अग्निः आवहात् युष्मान प्रापयति । 8. आङ्पूर्वाद् वहेलेंटि आडागमः । तम् इति पूर्वान्वयः । अयं यजमानः स्वस्ति क्षेमेण तं शेवधिम अ-

    • “ अनद्यतने लुट्” इति गमे-

न्वागन्ता पृष्ठत आगमिष्यति र्लुद्ध । ज्वरत्वर- परमे उत्कृष्टे व्योमन् व्योमनि विविधावनयुक्ते स्वर्गलोके तम् अन्वागतं यजमानं जानीत स्म अवगच्छत । मा विस्मरतेत्यर्थः । अविस्मरणद्योतनार्थः स्मशब्दः । X व्योमन्निति । विपूर्वाद् अवतेः “ अन्येभ्योपि दृश्यन्ते” इति हशिग्रहणाद् भावे मनिन् । त्रिव्यविमवाम् उपधायाश्च " इति ऊठि कृते गुणः । 'सुपां सुलु' इति सप्तम्या लुक् । विविधम ओम रक्षणम् अस्मिन्निति बहुव्रीहौ पू- र्वपदप्रकृतिस्वरत्वम् । “न ङिसंबुद्ध्यो : ” इति नलोपाभावः ॥ सप्तमी ॥ जानीत स्मैनं परमे व्यो मन् देवाः सध॑स्या विद लो॒कमत्रं । अ॒न्वा॒ाग॒न्ता यज॑मानः स्व॒स्तष्टापूर्ते स्म॑ कृणुताविर॑स्मै ॥ २ ॥ जानीत । स्म । एनम् । परमे । विऽओमन् । देवा॑ । सध॑ऽस्था । वि द । लो॒कम् । अत्र॑ । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मानः । स्व॒स्ति : इष्टापूर्तम् । स्मा॒ । कृणु॒त । आ- विः । अ॒स्मै ॥ २ ॥ जानीत स्मैनम् इत्यादि पूर्वद् योज्य । हे सधस्याः सहस्याना दे- वा: अत्र अस्मिन् स्वर्गे अस्य यजमानस्य लोकं विद जानीथ । कर्मा- नुष्ठानसमय एव अवधारयत । तृतीयः पादः पूर्ववद् योजनीयः । अस्मै अन्वागताय यजमानाय तत्कृतम् इष्टापूर्तम् । इष्टं श्रुत्युक्तयागादि कर्म |