पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू०१२३.]२९६ षष्ठं काण्डम् । २५९ स्मृत्युक्तवापीकूपतटाकनिर्माणादि पूर्तम् । तद् उभयम् आविष्कृणुत दर्श- यत । तत्फलं प्रयच्छतेत्यर्थः ॥ दे॒वाः पित॑रः पित॑रो॒ देवा॑ः । यो अ॑स्मि॒ सो अ॑स्म ॥ ३ ॥ दे॒वा॑ः । पि॒ित॑रः । पित॑रः । दे॒वा॑ः ॥ यः । अ॑स्मि॒ । सः । अ॒स्मि॒ ॥ ३ ॥ स पंचामि॒ स द॑दामि॒ स य॑ते॒ स दृत्तान्मा यू॒षम् ॥ ४ ॥ स । प॒च॒ामि॒ । सः । द॒ामि॒ । सः । य॒जे । सः । दू॒त्ता॑त् । मा । यू॒षम् ॥ ४ ॥ अष्टमी ॥ ये देवः वसुरुद्रादित्यरूपास्ते अस्माकं पितरः पितृपिताम- हप्रपिता महात्मका: पितृदेवताः । ये च अस्माकं पितरः पितृपितामहप्र- पितामहरूपा मानुषास्त एव प्रागुक्ता देवाः । इत्थं परस्परव्यतिहारेण पितॄणां देवतात्मकत्वं दृढीकृतम् । अतः सर्वेषां जनका: देवा एव । त- तो यो अस्मि यदीयो भवामि सो अस्मि तदीयोहम् अस्मि । संभावि- तव्यतिकमा हि स्त्रियः । अत एतद्भावनया स्वपितुरेव अहं पुत्रो भ- वामीत्यर्थः । रूयपराधात कर्तुश्च पुत्रदर्शनात्" [जै०१.२.१३] इत्यत्र मीमांसाभाष्यकृता एतत् समर्थितम् । अतः स तदीय एवाहं पचामि पाकयज्ञान् करोमि । स ददामि दानानि करोमि । स यजे यागान् अनुतिष्ठामि । सोहं दत्तात् पुत्रादिभिरनुष्ठितश्राद्धादिजन्यफलाद् मा यूषम् मा भूवम् । सत्यपि मातापित्रोर्व्यभिचारे एतन्मन्त्रपाठसामर्थ्येन यथास्वमेव सर्वे कर्मानुष्टितं भवतीत्यर्थः । ॐ यूषम इति । यौतेः पृथग्भावार्थाद् माङि लुङि “ल्लेः सिच्” । वर्णव्यत्ययेन ऊकार: ४ ॥ नवमी ॥ ८८ पृथ 66 - नाकै राजन प्रति॑ि तिष्ठ॒ तत्रैतत् प्रति॑ि तिष्ठतु | वि॒िद्धि पूर्तस्य॑ नो राज॒न्त्स दे॑व सु॒मना॑ भव ॥ ५ ॥ नाके॑ । रा॒ज॒न् । प्रति॑ । ति॒ष्ठ॒ । तत्र॑ । ए॒तत् । प्रति॑ । तिष्ठतु | विद्धि । पू॒र्तस्य॑ । नः॒ । रा॒जन् । सः । दे॒व॒ । सु॒ऽमना॑ः । भ॒व॒ ॥ ५ ॥ BKVC- f. We with ABDRSP JCe. Sayana's text as given in S -: योहमस्मि सो अस्मि २P अस्मि ३ P वृत्तान्. C1 दत्तात्. We with PJ.