पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० अथर्वसंहिताभाष्ये हे राजन् स्वामिन् सोम । “सोमोस्माकं ब्राह्मणानां राजा" [ तै० सं० १.४.१०.२] इति श्रुतेः । स त्वं नाके स्वर्गे लोके प्रति तिष्ठ अस्मदी- यम् अपराधं विस्मृत्य सुखं वर्तस्व । तत्र तस्मिन् स्वर्गे लोके एतत् अ- स्माभिः कृतम् इष्टापूर्त प्रति तिष्ठतु प्रतिष्ठितं फलप्रदानसमर्थ वर्तताम् । हे राजन् नः अस्माकं पूर्तस्य । उपलक्षणम् एतत् । कर्मणि षष्ठी । इष्टापूर्ते विद्धि जानीहि । एतस्य कर्मण एतावत् फलं देयम् इति मनसा निश्चिनु । हे देव स ताहशस्त्वं सुमना: शोभनम- नस्को भव ॥ दशमी ॥ दिवो नु मां बृ॑ह॒तो अन्तरि॑क्षापां स्तोको अभ्यपद् रसैन । समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ इन्ददो॑भिर्य॒ज्ञैः सु॒कृता॑ कृ॒तेन॑ ॥ १ ॥ दि॒वः । नु । माम् । बृ॒हुतः । अ॒न्तरि॑क्षात् । अ॒पाम् । स्तोकः । अ॒भि । अपनत् । रसैन 1 सम् । इ॒न्द्रि॒येण॑ । पय॑सा । अ॒हम् । अ॒ग्ने॒ । इन्द॑ऽभिः । य॒ज्ञैः । सु॒ऽकृ- ता॑म् । कृ॒तेन॑ ॥ १ ॥ दिवः धुलोकात् । नुशव्दो वितर्के । अथवा बृहतः महतः अन्तरिक्षात् आकाशाद् निर्मेघाद् अपाम् उदकानां स्तोकः बिन्दुः स्वकीयेन रसेन माम अभ्यपतत् ममोपरि पतितोभूत् । पन गतौ । लुङि ऌदि- त्वात् ले: अङ् आदेश: । “पत: पुम्” इति पुम् आगम: । अवसादेन अकालवर्षबिन्दुसेकजनितदोषम् अनेन प्रक्षालनेन परि- हृत्य इन्द्रियेण इन्द्रस्य आत्मनो लिङ्गं यत् तेजो बलं वा तेन । पयसा [ क्षीरेण ] पयोवत् सारभूतेन अमृतेन वा । 2. सम् इत्युपसर्गश्रुतेर्यो - ग्यक्रियाध्याहारः । संगच्छेय । तथा छन्दोभि: गायत्र्यादिच्छन्दो- युक्तैर्मन्त्रै| यज्ञैः अनुष्ठितैर्यागैः सुकृताम पुण्यकृतां जनानां कृतेन क- १ B अभ्यपम° R अभ्यप॑प्त° 1S' पतितमभूत्.