पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२. सू० १२४.]२९७ षष्ठं काण्डम् | २६१ र्मणा । यवा सुकृताम शोभनकर्मणां कृतेन फलेन अहं संगच्छे येत्य- र्थ: । एतस्य सर्वस्य निवर्तकं हि वृष्ट्युदकाभिवर्षणम् । श्रूयते हि दी. क्षितधर्मप्रकरणे । दिव्या आपोशान्ता ओजो वलं दीक्षां तपोस्य नि- ईन्ति " इति [तै० सं०३.१.१.३] ॥ 66 एकादशी | यदि वृक्षाद॒भ्यप॑त॒त् फलं तद् यद्य॒न्तरि॑क्षात् स उ॑ वायुरेव । यत्रास्पृ॑क्षत् त॒न्वा॒ यच॒ वास॑स॒ आपो॑ नुदन्तु नि परा॒चैः ॥ २ ॥ यदि॑ । वृक्षात् । अ॒भि॒ऽअप॑त॒त् । फल॑म् । तत् । यदि॑ । अ॒न्तरि॑क्षात् । सः । ऊं इति॑ । वा॒युः । ए॒व । यत्र॑ । अस्पृ॑क्षत् । त॒न्वः॑ । यत् । च॒ । वास॑सः । आप॑ः । नु॒द॒न्तु । निःऽॠ- तिम् । पराचैः ॥ २ ॥ वृक्षात् वृक्षाग्राद् यदि वर्षविन्दु अभ्यपप्तत् माम् अभिलक्ष्य पंति- भूत * पूर्ववत् लुङि पुम आगमः ४ । तत् पतितं व र्षजलं तसंबन्धि फलमेव । यदि च अन्तरिक्षात् निरांवरणाद् आ- काशप्रदेशाद् वर्षबिन्दुः अभ्यपनत् स उ सोपि वायुरेव वाय्वात्मक ए- व । नास्माकं दोषायेत्यर्थः । तन्वः शरीरस्य संबन्धिनि यत्र यस्मिन्नङ्गे अस्पृक्षत वर्षविन्दुः स्पृशति । ॐ स्पृशतेश्छान्दसो लुङ् । शल इगु- पधाद् अनिट: क्स: ” इति लेः क्सादेशः । वाससः परिहित- स्य अस्मदीयस्य वस्त्रस्य यच्च अङ्गं स्पृशति [ वर्षबिन्दुस्तां] वर्षबिन्द्वात्म- ना पतितां निरृतिम अनिष्टकरी पापदेवताम इमा: प्रक्षालनार्था: शु- द्धा आपः पराचैः पराङ्मुखीं नुदन्तु अस्मत्तः प्रेरयन्तु । दूरं गमयन्तु इत्यर्थः ॥ 66 द्वादशी | अ॒भ्यन॑नं॒ सुर॒भि सा समृ॑हि॒र्हिर॑ण्यं॒ वच॑स्तदु॑ पू॒त्रिम॑मे॒व । १ AK १ for ३. We with BDKRSVC. 1S' पतितमभूत् २S' निवारणा.