पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १२६.]२९९ षष्ठं काण्डम् । २६५ 66 तगतिम् । यद्वा वज्रावयवत्वाद् वज्रो रथ: । अवयवे समुदायशब्द: प्र- युज्यते । तथा च श्रुतिः । 'इन्द्रो वृत्राय वज्रं माहरत् । स त्रेधा व्यः भवत् । स्फ्यस्तृतीयम् । रथस्तृतीयम् | यूपस्तृतीयम्” इति [तै ० सं० ६. १.३.४] । एवंभूतं रथम हे होत: हविषा आज्यादिना यज मीणय ॥ तृतीया ॥ इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं॑ मि॒त्रस्य॒ गर्भो वरु॑णस्य॒ नाभि॑ः । स इ॒मां नो॑ ह॒व्यदा॑ति॑ि जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ ३ ॥ इन्द्र॑स्य । ओज॑ः । मरुता॑म् । अनी॑कम् । मि॒ित्रस्य॑ । गर्भ: । वरु॑णस्य॒ | नाभिः । स । इ॒माम् । नः॒ । ह॒व्यऽदा॑तिम् । जुषा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गुभाय ॥ ३ ॥ सि । हे देव दानादिगुणयुक्त हे रथ त्वम् इन्द्र॑स्य ओज: बलम् असि । मरुताम् मरुद्गणानाम् अनीकम समुदायरूपं बलम् असि । तथा मि त्रस्य देवस्य गर्भ: गर्भवद् अन्तरवस्थितः पालनीयोसि | वरुणस्य दे- वस्य नाभि: नाभिरिव अवयवभूतोसि । यद्वा वरुणेन संनद्धो भव- Xणह बन्धने इत्यस्मात् नहो भञ्य [ उ०४.१२५] इत्यौणा- दिक इञ् प्रत्ययो भवं च । स तादृशस्त्वं नः अस्मदीयाम् इमां हव्यदातिम् । हव्यानि हवींषि दीयन्तेस्याम इति हव्यदातिः यजिक्रिया । तां जुषाण : सेवमान: हव्या हव्यानि हवींषि अस्माभिर्दीयमानानि प्रति गृभाय प्रतिगृहाण । “छन्दसि शायजपि " इति श्न: शायजादे- 'हग्रहोर्भ: " इति भवम् ॥ 66 चतुर्थी ॥ उप॑ श्वासय पृथि॒वीमु॒त यां पुरुत्रा ते वन्वतां विष्ठितं जग॑त् । स दु॑न्दुभे सजूरिन्द्रे॑ण दे॒वेर्दूराद् दवयो अप॑ सेध शत्रून् ॥ १ ॥ उप॑ । श्वा॒स॒य॒ । पृथि॒वीम् । उ॒त । द्याम् । पुरु॒ऽत्रा । ते । वन्वताम् । विऽस्थि- तम् । जग॑त् । ३४