पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ अथर्वसंहिताभाष्ये सः । दुन्दुभे । स॒ऽजूः । इन्द्रेण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒धः॑ । शत्रून् ॥ १ ॥ हे दुन्दुभे पृथिवीम् भूमिम् उप श्वासय आत्मीयेन घोषेण उपश्वसि- नाम आपूरितां कुरु | उत द्याम् द्यामपि द्युलोकमपि उप श्वासय आ- पूरय । Xश्वस प्राणने हु । विष्ठितम् विविधम् अवस्थितं जगत् प्राणिजातं पुरुत्रा बहुषु देशेषु [ते ] त्वदीयं जयघोषं वनुताम् संभज- ॐ वन षण संभक्तौ । विकरणव्यत्ययः । यद्वा । ताम् । व- नु याचने त्यर्थः । त्रा प्रत्ययः 1 श्रोत्रसुखं त्वदीयं जयघोषं सर्वो जनः प्रार्थयताम् इ- हु पुरुत्रेति । “देवमनुष्य” इत्यादिना सप्तम्यर्थे पुरुशब्दात हे दुन्दुभे स तादृशस्त्वम् इन्द्रेण संग्रामाधिदैवतेन तदनुचरैर्देवै: मरुदादिभिश्च [सजू:] दूरात् सर्वे जना यावन्तं विमकृष्टदेशं दूरं मन्यन्ते ततोपि दवीयो दूरतरम् अस्मदीयान् शत्रून् अप सेध अप- ऋषिधु गत्याम् । भौवादिकः । दवीय इति । ईयसुनि “स्यू- लदूर ०" इत्यादिना यणादि परं लुप्यते पूर्वस्य च गुणे अव् आदेशः ॥ पञ्चमी ॥ 66 गमय । आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ वा॑ अ॒भि ष्ट॑न दुरिता बार्धमानः । अप॑ सेध दुन्दुभे दु॒च्छ॒ना॑मि॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥ २ ॥ आ । ऋ॒न्य॒ । बल॑म् । ओज॑ः । नः॒ः । आ । धा॒ः । अ॒भि । स्तन॒ । दुःऽइ॒- ता। वार्धमानः । अप॑ । से॒ध॒ । दु॒न्दु॒ते॒ । दु॒च्छ॒ना॑म् । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ीड- य॑स्व ॥ २ ॥ हे दुन्दुभे बलम् परकीयं शत्रुसंवन्धि रचतुरगगजपदातिलक्षणं युद्धाय संनद्धम आ ऋन्दय पराजयेन आर्तध्वनियुक्तं कुरु । ऋदि आ ह्वाने रोदने चहु । युद्धाभिमुखं स्थापय । अस्माकम् ओजः बलम् आ धाः आधेहि । ४ दधातेश्द्यान्दसो लुङ् ॥ तथा दुरि- १ P वाधमाना: Veith PJCr.