पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७ [अ० १३. सू° १२७.]३०० षष्ठं काण्डम् । ता दुरितानि पराजयनिमित्तानि पापानि यद्वा शत्रुकृतानि दुर्गतानि दु:- खानि बाधमानः निवर्तयन् अभि ष्टन अभितः श्रवणकटुकं शत्रुहृदयभ-, अकं परुषं शब्दं कुरु । हैं स्तन शब्दे । “अभिनिसः स्तन: शब्दसं- ज्ञायाम्" इति षत्वम् । इतः अस्माद् युद्धरङ्गाद् दुच्छुनाम दुः- खकरीं शत्रुसेनाम् अप सेध अपगमय । इन्द्रस्य देवस्य त्वं नुष्टिरसि मुष्टिवत् शत्रूणां भञ्जकोसि अतस्त्वं वीडयस्व दृढीभव ॥ षष्ठी ॥ मामूं ज॑या॒ाभी मे ज॑यन्तु केतुमद् दु॑न्दुभिर्वावतु | समव॑पर्णाः पतन्तु नो॒ नरो॒स्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ ३ ॥ प्र । अ॒मूम् । जय॒ । अ॒भि । इ॒मे | जयन्तु । केतुमत् । दुन्दुभिः । वावदीतु । सम् । अव॑ऽपर्णाः । प॒त॒न्तु॒ । नः । नर॑ः । अस्माक॑म् । इन्द्र । रथिनंः । जयन्तु ॥ ३ ॥ हे इन्द्र अमूं दूरे दृश्यमानां शत्रुसेनां प्रकर्षेण जय यथा अस्मत्स- मीपं नायाति तथा पराजितां कुरु | इमे अस्मदीया भटाः पुरोवर्तिनः अभि जयन्तु शत्रून् अभिमुखं गच्छन्तो जयं प्रतिपद्यन्ताम् । अयं दुन्दु- भि: केतुमत् प्रज्ञानवद् उच्चस्तरां वावदीतु भृशं वदतु । ध्वनिश्रवणमात्रे- ण यथा शत्रवः पलायन्ते तथा उच्चैर्ध्वनत्वित्यर्थः । ॐ केतुमत् इति । " ह्रस्वनुड्भ्यां मतुप्" इति मतुप उदात्तत्वम् । वावदीतु । वद व्यक्ता- यां वाचि । अस्माद् यडुगन्तात् लोटि रूपम् X । नः अस्माकं नरः नेतारः सेनानायका: अश्वपर्णाः अश्वपतना: अश्वारूढाः सन्तः [ सं ] पतन्तु युद्धभूमिम् इतस्ततो गच्छन्तु | तथा अस्माकं रथिन: रथारूढा अमात्यजना राजानश्च जयन्तु जयं प्रतिपद्यन्ताम् ॥ [ इति ] त्रयोदशेनुवाके प्रथमं सूक्तम् ॥ 66 “विद्रधस्य वलासस्य" इति तृचेन जलोदरविसर्पादिसर्वरोगभैषज्यार्थ व्याधितस्य मूर्ध्नि संपातान् आनयेत् ॥ 1S' 'हृदयजंभकं.