पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ अथर्वसंहिताभाष्ये तथा तत्रैव कर्मणि अनेन तृचेन चतुरङ्गुलं पलाशशकलं पिछ्वा अ- भिमन्य व्याधितशरीरं लिम्पेत् ॥ 66 सूत्रितं हि । “विद्रधस्य [ ६. १२७] या बभ्रवः [ ४.७] इत्युपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति” इति [ कौ० ४.२] “पञ्चमेन वरुणगृ- हीतस्य मूर्ध्नि संपातान् आनयति" इति च [ कौ॰४.२] ॥ 66 'शकधूमम्" इति चतुर्ऋचेन स्वस्ययनकामः आज्यसमित्पुरोडाशादि- शाकुल्यन्तानां त्रयोदशद्रव्याणाम अन्यतमं जुहुयात् ॥ तथा नित्यनैमित्तिककाम्यकर्माणि शीघ्रं कर्तुकामः अनेन चतुर्ऋचेन ब्राह्मणस्य संधिषु गोमयपिण्डान् निधाय अग्नित्वेन संकल्प्य अभिमन्य सूत्रोक्त प्रकारेण प्रश्नप्रतिवचने कुर्यात् ॥ सूत्रितं हि । “शकधूमम् [ ६. १२७] भवाशर्वौ[ ११.२] इत्युपदधी- त” इति [कौ०७.१] । “उपोत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधाय शकधूमं किम अद्याहरित पृच्छति । भद्रं सुमङ्गलम् इति प्रतिपद्यते " इति [च कौ०७.१] ॥ ८८ 66 तथा सोमग्रहणजनितारिष्टशान्तये अनेनाज्यं जुहुयात् । 'अथ यत्रै- तञ्चन्द्रमसम् उपलवति " इति प्रक्रम्य सूत्रितम् । “ शकधूमं नक्षत्राणी- त्येतेन सूक्रेन जुहुयात्" इति [ कौ० १३.४] ॥ तथा ग्रहयज्ञे हविराज्यहोमादीनि अनेन सोमाय कुर्यात् । तद् उक्तं शान्तिकल्पे । 'शकधूमम् इति सोमाय " इति [ शा० क°१५] ॥ 66 तत्र प्रथमा ॥ वि॒िद॒धस्य॑ ब॒लास॑स्य॒ लोहितस्य वनस्पते । वि॒सल्य॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ॥ १ ॥ वि॒ऽदु॒धस्य॑ | व॒लास॑स्य । लोहि॑तस्य । व॒न॒स्पते । विऽसल्प॑कस्य । ओषधे । मा। उत् । शिषः । पिशितम् | चन ॥ १ ॥ विसर्पकादिव्याधेरौषधभूत 66 हे वनस्पते चतुरङ्गुलपलाशवृक्ष हे ओषधे 1SoS. Kansih शकधूमं 'S' °मस उप°.