पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये परा तमज्ञतं यक्ष्म॑मध॒रा सुवामसि ॥ ३ ॥ यः । अङ्गच॑ । यः । क॑यैः । यः । अक्ष्योः । विऽसल्पकः । वि । वृ॑ह॒ाम॒ः । वि॒ऽसल्य॑कम् । वि॒ऽधम् । हृष॒ऽआ॒म॒यम् । परी । तमं । अज्ञतम् । यक्ष्म॑म् । अध॒राञ्च॑म् । सुवाम॒सि॒ ॥ ३ ॥ यो विसर्पक: अङ्गयः अङ्गेषु हस्तपादादिषु भवः यः कर्ण्यः कर्णयोरु- 'शरीरावयवाच्च" इति यत् 66 त्पन्नः । उभयत्र । अक्ष्योः अणोर्यो विसर्पकः । “ई च द्विवचने” इति अक्षिशब्दस्य ईका- रांन्तादेशः । एवं बहुविधं तं विसर्पकं वि वृहामः उत्खनामः । समूलम् उन्मूलयाम इत्यर्थः । * वृहू उद्यमनेः ॥ तथा वि द्रधम् विदरणस्वभावं व्रणविशेषं हृदयामयम् हृद्रोगं हृदयाश्रित अन्य मपि रोगं निवर्तयामः । तं तथाविधम् अज्ञातम् अनिर्ज्ञातस्वरूपं य क्ष्मम् रोगम् अधराञ्चम् अंधरम् अधस्ताद् अञ्चन्तम् अधोमुखं गच्छ- न्तं परा सुवामसि पराङ्मुखं प्रेरयामः । प्रेरणे । “इदन्तो म सिः ॥ २७० चतुर्थी ॥ शक॒धूमं नक्ष॑त्राणि॒ यद् राजा॑न॒मकु॑र्वत । भ॒द्रा॒हम॑स्मै॒ प्राय॑च्छन्नि॒दं रा॒ष्ट्रमसा॒दति॑ ॥ १ ॥ श॒क॒ऽधूम॑म् । नक्ष॑त्राणि । यत् । राजा॑नम् । अकुर्वत । भ॒द्रुऽअ॒हम् । अ॒स्मै । म । अयच्छन् । इदम् । राष्ट्र | असत् | इति ॥ १ ॥ 66 शकस्य शकृतः संबन्धी धूमो यस्मिन्ननौ स शफधूमः अग्निः । तद- भेदाद् ब्राह्मणोत्र अभिधीयते । एष वा अग्निर्वैश्वानरो यद् ब्राह्मण: " [तै० सं० ५.२.८.२] इति श्रुतिः । तयास्तादात्म्यं दर्शयति । तं शकधूमं पुरा नक्षत्राणि तारका: राजानं चन्द्रमसम् अकुर्वत व्यदधतेति यत् तस्य कारणम् उच्यते । अस्मै शकधूमाय भद्राहम् पुण्याहं कल्या- णमर्द [ कालं ] प्रायच्छन् ।

  • भद्रं च तद् अहश्चेति भद्राहः

१ P क॒ये॑ः. We with Þ J Cr. २P परं: ३P तत्. ४ Þ J अ॒सात्. We with P Cr.