पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू०१२.]३०१ षष्ठं काण्डम् । “राजाहः सखिभ्यः” इति टच् समासान्तः ४ । किमर्थ प्रायच्छन् । तत्राह । इदं राष्ट्रम राज्यं नक्षत्रमण्डलाधिपत्यम् असात् भवेत् । अस्य वशे सर्व वर्तेत इत्यनेनाभिप्रायेणेत्यर्थः ॥ पञ्चमी ॥ २७१ भ॒द्राहं नो॑ म॒ध्य॑दि॑ने भद्रा॒हं सा॒यम॑स्तु नः । भ॒द्राहं नो॒ अाँ प्रा॒ता रात्र भइ॒हम॑स्तु नः ॥ २ ॥ भ॒द्र॒ऽअ॒हम् । नः॒ । म॒ध्य॑दि॑ने । भ॒द॒ऽअ॒हम् । सा॒यम् । अ॒स्तु । नः॒ । भ॒इ॒ऽअ॒हम् । नः॒ । अहा॑म् । प्र॒तः । रात्री॑ । भ॒द॒ऽअ॒हम् । अ॒स्तु। नः॒ ॥ २ ॥ नः अस्माकं मध्यंदिने मध्याहे भद्राहम शोभनदिनं पुण्यम् अहः । भवत्वित्यर्थः । तथा नः अस्माकं सायम् सूर्यास्तमयकालेपि भद्राहम् पु- ण्याहम् अस्तु ॥ अह्नाम दिवसानां प्रातः पूर्वाह्नकालेपि नः अस्माकं भद्राहम् पुण्याहं भवतु । तथा रात्री कृत्स्त्रापि निशीथिनी [नः ] भ- द्राहम शुभकालो भवतु । * “रात्रेश्चाजसौ” इति ङीप् ॐ ॥ षष्ठी ॥ अहोरात्राभ्यां नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम् । भ॒द्राहम॒स्मभ्यं॑ राज॒न्छक॑धूम॒ त्वं कृ॑धि ॥ ३ ॥ अ॒ह॒ोरा॒त्राभ्या॑म् । नक्ष॑त्रेभ्यः । सूर्याच॒न्द्र॒मसा॑भ्याम् । भ॒द्रुऽअ॒हम् । अ॒स्मभ्यम् । रा॒ज॒न् । शक॑ऽधूम | त्वम् । कृधि॒ ॥ ३ ॥ अहोरात्राभ्याम् अहश्य रात्रिश्च अहोरात्रौ । *” “अहः सर्वैकदे- श०" इत्यादिना अकोर: समासान्तः ॐ । अहोरात्राभ्यां सकाशात् नक्षत्रेभ्यः अश्विन्यादिभ्यः सूर्याचन्द्रमसाभ्याम् । सूर्यश्च चन्द्रमाश्च सूर्या- चन्द्रमसौ अहोरात्रयोर्विभेदको ताभ्यां च सकाशात् हे शकधूम ब्राह्मणा- त्मक हे राजन् नक्षत्राणाम् अधिप अस्मभ्यं भद्राहम् पुण्याहं [ त्वं ] कृधि कुरु । 2. सूर्याचन्द्रमसाभ्याम् इति । पूर्वपदस्य “देवताइन्डे च" इति आनङ् । छान्दस : अकार: समासान्तः ॐ ॥ १KR राजं, We with ABDKSVC..