पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३ [अ० १३. सू° १२९.]३०२ षष्ठं काण्डम् । “रथजिताम् इति माषान् निवपति शरभृष्टीरादीप्ताः प्रतिदिशम् अ- भ्यस्यत्यर्वाच्या आवलेखिन्या" इति [ कौ० ४.१२] ॥ तत्र प्रथमा ॥ भर्गेन मा शांश॒पेन॑ सा॒कमिन्द्रेण मे॒दिना॑ । कृ॒णोति॑ अ॒गिनं॒ माप॑ गा॒ान्त्वरा॑तयः ॥ १ ॥ भर्गेन । मा । शा॑श॒पेन॑ । सु॒कम् । इन्द्र॑ण । मे॒दिना॑ । । कृ॒णोति॑ । अ॒गिन॑म् । मा॒ । अप॑ । व्र॒न्तु | अरा॑तयः ॥ १ ॥ संशँफेन । संगता: शफा गोमहिषादीनां खुरा: शफाकृतिरायुधविशे षो वा यस्य स तथोक्तः । तादृशेन भगेन सौभाग्यकरेण देवेन साकं सह मा मां सौभाग्यवन्तं करोमि । मेदिना स्त्रिग्धेन अस्मत्सेवया परि- नुष्टेन इन्द्रेण मा मां भगिनम् भाग्यवन्तं कृणोमि करोमि ॥ अरातयः अदानशीला: शत्रवः अप द्रान्तु अस्मत् सकाशाद् अपेत्य कुत्सितां गति गच्छन्तु । Xद्रा कुत्सितायां गतौ । अदादित्वात् शपो लुक् ॥ द्वितीया || येन॑ वृक्षाँ अ॒भ्यभ॑वो॒ भग॑न॒ वच॑सा स॒ह । तेन॑ मा अ॒गिनं॑ कृ॒ण्वप॑ गा॒न्त्वरा॑तयः ॥ २ ॥ येन॑ । वृक्षान । अ॒भि॒ऽअभ॑वः । भर्गेन । वच॑सा । स॒ह । तेन॑ । मा । अ॒गिन॑म् । कृण । अर्प 1 द्रान्तु । अरा॑तयः ॥ २ ॥ हे ओषधे येन भगेन सौभाग्यकरेण देवेन वर्चसा तत्कृतेन तेजसा सह वृक्षान् समीपस्थान् अभ्यभवः अभिभवसि तिरस्करोषि तेन भगेन मा मां भगिनम् सौभाग्यवन्तं कृणु कुरु । गतम् अन्यत् ॥ तृतीया ॥ यो अन्धो यः पु॑नःस॒रो भगो॑ वृक्षेष्वाहि॑ितः । १ AK शांशफन॑. We with BBDKRSPPJVC-C. २ BDK SC- वृक्षां अ We with AKRV. 1