पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ अपर्वसंहिताभाष्ये भिगच्छेद् इति वशीकृतायाः स्त्रिया वाक्यम् । गतम् अन्यत् ॥ षष्ठी ॥ उन्मा॑दयत मरुत॒ उद॑न्तरिक्ष मादय । अग्न उन्मा॑दया त्वम॒सौ मामनु॑ शोचतु ॥ ४ ॥ उत् । मा॒ायत । म॒रुतः । उत् । अन्तरिक्ष । माय । अग्ने॑ । उत् । मा॒य॒ । त्वम् । अ॒सौ । माम् । अनु॑ । शोच॒तु ॥ ४ ॥ हे मरुतः मरुद्गणाः इमां स्त्रियम् उन्मादयत उन्मत्तां परवशाम अ- स्मदायत्तां कुरुत । हे अन्तरिक्ष त्वमपि एनाम् उन्मादय एनाम् अस्म- द्वशे कुरु । हे अग्ने त्वम् एनाम उन्मादय स्वात्मानं विस्मृत्य यथा अ- स्माकं वशे भवति तथा कुरु । एवं युष्माभिरुन्मादं प्रापिता असौ माम् अनुस्मृत्य शोचतु ॥ [इति] तृतीयं सूक्तम् ॥ 66 “नि शीर्षतो नि पत्ततः इति सूक्तस्य पूर्वतृचेन सह उक्तो वि- नियोगः ॥ तत्र प्रथमा ॥ नि शीर्षतो नि प॑त॒त आध्यो नि ति॑िरामि ते । देवाः म हिंणुत स्मरम॒सौ मामनु॑ शोचतु॒ ॥ १ ॥ । नि । शीर्षतः । नि । पत्त॒तः । आऽध्ये | नि । तिरामि । ते । देवा॑ । प्र । हि॒णु॑त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒ोच॒तु ॥ १ ॥ हे जाये ते तव शीर्षत: शिर: मदेशाद् आरभ्य आध्य: आधश्चिन्ता- विशेषान् नि तिरामि शरीरे निक्षिपामि । तथा पततः । कस्तशब्दश्छान्दसः । पत्त: पादत आरभ्य तव शरीरे आधीन् निक्षिपामि । इत्थं सर्वस्मिन्नपि त्वदीये अङ्गे स्मरकृतां पीडां निक्षिपा- मीत्यर्थः । आध्य: । आङ्पूर्वाद् दधाते: “उपसर्गे घो: कि: " ,, १ AR १ for ३. W@witl BDKKŚvc. २ P आ॒ध्य: PJ अध्य॑. We with Cr.