पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ अथर्वसंहिताभाष्ये त्वं पुनरायसि पुनरागच्छ । नः अस्माकं पुत्राणां गृहे वर्तमानानां पि- हा अस: पालको भव । यहा तव देशान्तरगमनाद् एतावन्तं कालं पु- त्रा: पितृरहिता आसन् इदानीं लदागमनात् पितृमन्तो भवन्तु इत्यर्थः ॥ चतुर्थी ॥ य॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व॑प॒न्तः शोशु॑चानं॑ स॒हाध्या । तं ते तपामि वरु॑णस्य॒ धर्म॑णा ॥ १ ॥ यम् । दे॒वाः । स्म॒रम् । अति॑ञ्चन् । अ॒प्ऽसु । अ॒न्तः । शोशु॑चानम् । स॒- ह। आध्या । 'तम् । ते । तपामि । वरु॑णस्य | धर्मणा ॥ १ ॥ । सर्वे देवाः यं स्मरं मनोभवम् आध्या । आधिस्तु मानसी पीडा । ला हि स्मरस्य भार्या । “कामो गन्धर्वस्तस्याधयोप्सरसः " [तै० सं० ३.४. ७.३] इति श्रुतेः । तथा सह शोशुचानम् विरहाग्निना संतप्यमानगात्रम् अप्सु उदकेषु अन्तः मध्ये असिञ्चन् परितापशमनार्थम् आसिक्तवन्तः । यद्वा शोशुचानम् दीप्यमानं स्वशक्त्या सहितं स्मरम् अप्सु अन्तरिक्षनामै- तत् । अवकाशात्मके अन्तरिक्षे अन्तरवस्थितान् तत्रत्यान् माणिनः पीड- यितुम् असिञ्चन् । कामिनां साम्राज्ये अभ्यषिञ्चन्नित्यर्थ: । हे योषित् ते तुभ्यं त्वदर्थं तं स्मरं वरुणस्य जलाधिपतेर्देवस्य धारणशक्त्या त- पामि संतापयामि । स्मरकृतं संतापम् उत्पादयामीत्यर्थः ॥ पञ्चमी ॥ यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व॑१न्तः शोशु॑चानं सहाध्या । तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥ २ ॥ यम् । विश्वे॑ । दे॒वाः । स्म॒रम् । अति॑ञ्चन् । अ॒प्ऽसु । अ॒न्तः । शोशु॑चानम् । सह । आध्या । तम् । ते । तपामि । वरु॑णस्य | धर्मणा ॥ २ ॥ १ B३ for here and in the following cer-ies. । S' अवकाशान्मिके.