पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२t२ अथर्वसंहिताभाष्ये मृत्योः वैवस्वतस्य अहं कर्मकरो भवामि । यत् यस्माद् ब्रह्मचारी अ- स्मि ब्रह्मचर्यधर्मेण दीक्षादिनियमेन तपोविशेषेण युक्तो भवामि । तस्मात् मत्कृतेन अभिचारकर्मणा नियमविशेषेण च शत्रुवध : अवश्यंभावीति मृ- त्योरेव अहं सहायभूतो भवामीत्यर्थ: । अतो हेतोः भूतात् भूतग्रामात पुरुषम् शत्रुं यमाय यमार्थ निर्याचम् निःशेषेण याचे प्रार्थये । तं मा- रयितव्यम् एनं शत्रुं ब्रह्मणा मन्त्रेण तपसा अनशनादिरूपेण मत्कृतेन श्रमेण शरीरदण्डेन च अनया आबध्यमानया मेखलया अहं सिना- नि बामि । अनेन मेखलाबन्धनेन शत्रुमेव निरुद्धगतिं बभ्रामीत्य-, र्थः । हुषिञ् बन्धने ॥ ● चतुर्थी ॥ श्रृद्धाय दुहि॒ता तप॒सोधि॑ि जा॒ाता स्वस॒ ऋषी॑णां भूत॒कृतो॑ ब॒भूव॑ । सा नौ मेखले मतिमा धेहि मेधामथ नो धेहि तप॑ इन्द्रि॒यं च॑ ॥ ४ ॥ श्रृद्धाया॑ । दु॒हि॒ता । तप॑सः । अधि॑ । जा॒ता । स्वसा॑ । ऋषी॑णा॒म् । भू- त॒ऽकृता॑म् | ब॒भू॒वः॑ । सा । नः । मेखले । मतिम् । आ । धेहि । मेधाम् । अथो इति । नः । धेहि॒ । तप॑ । इ॒न्द्रि॒यम् । च ॥ ४ ॥ श्रद्धाया दुहिता । श्रुतिस्मृत्युदितकर्मसु आस्तिक्यबुद्धिः श्रद्धा । तस्या दुहिता पुत्री तपसोधि जाता सृष्ट्यादौ ब्रह्मणस्तपस उत्पन्ना । धिशब्द: पञ्चम्यर्थानुवादी । उपर्य वा । भूतकृताम् भूतग्रामस्य कर्तॄणाम ऋषीणाम मरीव्यत्रिप्रभृतीनां स्वसा भगिनी येयं मेखला इत्थं बभूव हे मेखले सा नाहशी त्वं [नः ] मतिम आगामिगोचरां बुद्धिम् आ धेहि आभिमुख्येन कुरु । तथा मेधाम श्रुतधारणसमर्था बुद्धिम आ धेहि । अथो अपि च तपः नियमविशेषम् इन्द्रियम् इन्द्रस्यात्मनो लिङ्गं वीर्य च नः अस्माकं विधेहि ॥ १ P तपसः. We witi PJ Cr. 1 S' 'घर' for "धारण. -Ja