पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ अथर्वसंहिताभाष्ये वज्रेणावहतः शयाम् ॥ २ ॥ अर्धरःऽअधरः । उत्त॑रेभ्यः । गूढः । पृथि॒व्याः । मा । उत् । सृपत् I वज्रेण । अव॑ऽहतः । शयाम् ॥ २ ॥ उत्तरेभ्य: उत्कृष्टतरेभ्यः अधरोधरः अतिशयेन अधर : अधोगतिर्निकृ- टतर: गूढः संवृतः पृथिव्याम् अन्तर्निम: तस्याः पृथिव्याः सकाशात् मा उत्सृपत् मोन्सर्पतु उत्तिष्ठतु । अनेन वज्रेण अवहतः चूर्णीकृत: श- याम शेताम् । म्रियताम् इत्यर्थः । & शीङ् स्वप्ने । “लोपस्त आ- त्मनेपदेषु ” इति तलोपः ४ ॥ " अष्टमी | यो जि॒नाति॒ तमन्वच्छ॒ यो जि॒नाति॒ तमिज॑हि । जि॒न॒तो व॑च॒ त्वं मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥ ३ ॥ यः । जि॒नाति॑ । तम् । अनु॑ । इ॒च्छ॒ । यः । जि॒नाति॑ । तम् । इत् । ज॒हि॒ | जनतः । वज्र । त्वम् । स॒मन्त॑म् । अ॒न्वञ्च॑म् । अनु॑ । पा॒य॒ ॥ ३ ॥ ग्र- यः शत्रुः जिनाति हानि प्रापयति । हिज्या इत्यादिना संप्रसारणम् । X ज्या वयोहानौ । हे वज्र तं शत्रुम् अन्विच्छ । तथा यो जिनाति तम् इत् तमेव जहि मारय । जिनतः हानि प्राप- यतः शत्रोः सीमन्तम् । सीम्नोरन्तः सीमन्तः [तम्] । केशेषु” इति शकन्ध्वादिषु पाठात् पररूपत्वम् । शम् अन्वञ्चम् अनुलोमम् अनु पातय । अनुक्रमेण [ इति ] पञ्चमं सूक्तम् ॥ ""

  • “सीमन्तः

शिरसो मध्यदे- विदारयेत्यर्थः ॥ 66 'यद् अनामि "यद् गिरामि" इत्याभ्याम अभिचारकर्मणि अ- न्नम् अभिमन्त्य भुञ्जीत ॥ [ कौ० ६.१] ॥ "यत् पिबामि” इत्यनया उदकम् अभिमन्य पिवेत् ॥ [ कौ० ६.१] ॥ “ देवी देव्याम” “यां जमदग्निः" इति तृचाभ्यां केशवृद्धिकरणका- मः काचमाचीफलं जीवन्तीफलं भृङ्गराजं वा संपात्य अभिमन्त्र्य बनीयात् ॥ -