पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू°१३५.]३०४ षष्ठं काण्डम् । २४५ तथा तत्रैव कर्मणि काचमाची भृङ्गराजसहितोदकम् आभ्या तृचाभ्याम् अभिमन्त्य उषःकाले अवसिञ्चेत् ॥ सूत्रितं हि । “ देवी देव्याम् [१३६] यां जमदग्नि: [१३७] इति म “न्त्रोक्ताफलं जीव्यलाकाभ्याम अमावास्यायां कृष्णवसनः कृष्णभक्षः पुरा 'काकसंपाताद् अवनक्षत्रेवसिञ्चति" इति [कौ०४.७] ॥ तत्र प्रथमा ॥ यद॒नाम बलै कुर्व इत्थं वज॒मा द॑दे । • स्क॒न्धान॒मुष्य॑ श॒तय॑न् वृ॒त्रस्ये॑व॒ शच॒पति॑ ॥ १ ॥ यत् । अ॒श्नामि॑ । बल॑म् । कुर्वे । इ॒त्थम् । वज्र॑म् । आ । दु॑दे॒ । स्क॒न्धान् । अ॒मुष्य॑ । शा॒तय॑न् । वृ॒त्रस्य॑ऽइव | शच॒ऽपति॑ः ॥ १ ॥ 66 अश्नामि भुञ्जे इति यत् तेन आत्मनो बलं कुर्वे करोमि । तेन च बलेन इत्यम् अनेन प्रकारेण वज्रम् वर्जकम आयुधम् आ ददे गृह्णा- मि । इत्थंम् इति इदमा आदानप्रकारस्य अभिनयः । "आ- ङो दोनास्यविहरणे” इति आत्मनेपदम् । शचीपतिः इन्द्रः वृ- त्रस्येव अमुष्य एतन्नाम्नः अस्मच्छत्रोः स्कन्धान स्कन्धोपलक्षितान शरी- रावयवान शांतयन् द्विन्दन् । “लक्षणहेत्वोः क्रियायाः इति हेतौ शतृप्रत्ययः । शब्द शातने इत्यस्मात् णिचि “ शदेरगतौ तः” इति तकारादेशः ॥ १ P पिव. P पिय. 1S omits इत्थ°. 66 द्वितीया ॥ यत् पिवा॑मि॒ सं पि॑बामि समु॒द्र इ॑व पि॒वः । प्रा॒णान॒मुष्य॑ सं॒पाय॒ सं पि॑बामो अ॒मु॑ व॒यम् ॥ २ ॥ यत् । पिबा॑मि । सम् । पि॑वा॒ामि॒ | स॒मु॒द्रःऽइ॑व । स॒मऽपि॒वः॑ः । प्रा॒णान् । अ॒मुष्य॑ । स॒म्ऽपाय॑ | सम् | पवा॒ाम॒ । अ॒मुम् । व॒यम् ॥ २ ॥ अहम् उदकं पिबामीति यत् तेन सं पिबामि शत्रुमेव संगृह्य तदीयं We with JCr. S' omits शातय. 99