पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ अथर्वसंहिताभाष्ये “यां जमदग्निः” इति तृचस्य पूर्वतृचेन सह उक्तो विनियोगः । सूत्र- मपिं तत्रैवोदाहृतम् ॥ 66 “त्वं वीरुधाम्” इति पञ्चर्चेन अभिचारकर्मणि सूत्रोक्तमकारेण मूत्र- पुरीषस्थानं बांधकेन काष्ठेन हन्यात् ॥ तत्र प्रथमा ॥ यां ज॒मद॑ग्नि॒रव॑नद् दुहि॒त्रे केशवर्धनीम् । त वी॒तह॑व्य॒ आभ॑र॒द॒सि॑ितस्य गृ॒हेभ्य॑ ॥ १ ॥ याम् । ज॒मत्ऽअ॑ग्निः । अव॑नत् । दुहि॒त्रे । केशऽवर्धेनीम् । ताम् । वी॒तऽह॑व्यः । आ । अ॒भ॒र॒त् । असि॑तस्य । गृ॒हेभ्य॑ ॥ १ ॥ ० जमत् इति ज्वलतिकर्मसु पाठात् [ निघ० १.१७] जमच्छन्दो दीप्ति - वचनः | जमन्तः ज्वलन्तः अग्नयो यस्य स जमदग्नि: महर्षिः दुहित्रे आ- मजाया अर्थे केशवर्धनीम केशाभिवृद्धिकरीं याम ओषधिम् अखनत ख- ननेन उद्धृतवान् ताम ओषधिं वीतहव्याख्यो महर्षिः केशवृद्ध्यर्थम् अ सितस्य कृष्णकेशस्य एतत्संज्ञस्य मुनेगृहेभ्यः सकाशाद् आ अभरत आ- हरत् । g"हृग्रहोर्भ: " इति भत्वम् ४ ॥ द्वितीया ॥ अ॒भीशु॑ना॒ा मेया॑ आसन् व्या॒मेना॑नु॒मेया॑ । केश नडा इ॑व वर्धन्तां शीर्ण असिताः परि॑ ॥ २ ॥ अ॒भीशु॑ना । मेया॑ः । आ॒स॒न् । वि॒ऽआ॒मेन॑ । अ॒नु॒ऽमेया॑ः । केशा॑ः । न॒डाःऽइ॑व । व॒र्धन्ताम् । शीर्णः । ते । अ॒स॒ताः । परि॑ ॥ २ ॥ । हे केशाभिवृद्धिकाम त्वदीयाः केशा: प्रथमम् अभीशुना । अङ्गुलि नामैतत् । जातावेकवचनम् । अङ्गुलिभि: मेया: मातव्या- चतुरङ्गुला: षडङ्गुला इत्येवं परिच्छेद्या आसन् । ततो व्यामेन प्रसारित- हस्तद्वयपरिमाणेन अनु पश्चात् मेयाः मातव्या आसन् । चतुररलिर्व्याम 1S' omil अत्रै 2S' वेधकेन. We with Kausika. ".