पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० अथर्वसंहिताभाष्ये इति ओपशः स्त्रीव्यञ्जनम् । तद्वन्तं कृधि कुरु । नपुंसकत्वे हि पुंस्त्वश- . कापि स्यात् सापि अस्य मा भूद् इत्यर्थः ॥ पञ्चमी ॥ वं कृ॑ध्योप॒शिन॒मथो॑ कुरीरिणि॑ कृधि । अथा॒स्येन्द्रो ग्राव॑भ्यामु॒भे भिनत्त्वाण्ड्यौ ॥ २ ॥ क्रू॒वम् । कृ॒धि॒ । ओप॒शिन॑म् । अथो॒ इति॑ । कुरीरिण॑म् । कृ॒धि॒ । अथ॑ । अ॒स्य॒ । इन्द्र॑ । ग्य्राव॑ऽभ्याम् । उ॒भे इति॑ । भि॒न॒तु । आ॒ण्ड्यौ ॥२॥ उक्त एवार्थ: अनूद्य विवियते । [हे] ओ[षधे] मदीयं शत्रुं क्लीबम् नपुंसकम् ओपशिनम् स्त्रीलोपेतं कृधि कुरु । अथो अपि च कुरीरिणम् कुरीरा: केशा: तद्वन्तं कृधि कुरु | पुंस्वापगमेन स्त्रीत्वापातात् तद्वत् प्र- शस्तकेशयुक्तं कुर्वित्यर्थः ॥ स्तनकेशवती स्त्री स्यात् लोमशः पुरुषः स्मृतः 66 इति हि व्यक्तिविदः । अत एव सिनीवाल्या: प्रशंसार्थो मन्त्र इत्यम् आम्नातः । सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा” इति [नै० सं० ४. १. ५.३.] । अथ अनन्तरम् अस्य द्वेष्यस्य उभे आण्ड्यौ वीर्यस्य आश्रयभूत अण्डी इन्द्र ग्राभ्याम् पाषाणाभ्यां भिनत्तु मर्दयतु । य- थासौ पुत्रोत्पादनक्षमो न भवेत् तथा करोलित्यर्थः ॥ ॥ षष्ठी ॥ की क़ी वाकरं धे॒ वधं त्वाकरमर॑सार॒सं त्वा॑करम् । कुरीर॑मस्य शी॒र्षणि॒ कुम्वँ चाधि॒निद॑ध्मसि ॥ ३ ॥ कीब॑ । क्लबम् । त्वा॒ा । अकरम् वने॑ । वर्धम् । त्वा । अ॒कम् । अर॑स । अरसम् । त्वा । अकरम् । कु॒रीर॑म् । अ॒स्य॒ । शीर्षण | कुम्व॑म् । च॒ । अ॒धि॒ऽनिद॑ध्मसि ॥ ३ ॥ हे कीब द्वेष्य • त्वा त्वाम् अनेन कर्मणा क्लीबम् अकरम् अकार्षम् । १ ABDK कुवं. We with BKRSPPJC. Cr.