पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १३४.]३११ षष्ठं काण्डम् । २९१ हे वधे । निसर्गपण्डको वधिः । हे तथाविध शत्रो वा त्वां वधिम् स्वभावतः षण्ढम् [ अकरम् ] अकार्षम् । हे अरस रसो रेतः । हे अ-. रतस्क शत्रो वा लाम् अरसम् अरेतस्कम् अकरम् अकार्षम् । यस्माद् एवं तस्माद् अस्य द्वेष्यस्य नपुंसकीभूतस्य शीर्षणि शिरसि कुरीरम् के- शजालं कुम्बम् तदाभरणं च स्त्रीणाम् असाधारणम् अधिनिदध्मसि उ- परि निक्षिपामः । यद् आह आपस्तम्बः । अत्र पत्नीशिरसि कुम्ब- कुरीरम अध्यूहते” इति [ आप° १०. ९. ५ 66 ५] ॥ सप्तमी ॥ ये ते॑ नाड्यो दे॒वकृ॑ते॒ यया॒स्तिष्ठ॑ति॒ वृष्ण्य॑म् । ते ते॑ भिननि॒ि शम्य॑या॒मुष्या॒ अधि॑ मुफ्कयो॑ः ॥ ४ ॥ ये इति॑ । ते॒ । ना॒ड्यौ । दे॒वकृ॑ते॒ इति॑ दे॒वऽकृ॑ते॒ । यथो॑ः । तिष्ठ॑ति । वृष्ण्य॑म् । ते इति । । भि॒न॒नि॒ । शम्य॑या । अ॒मुष्या॑ः । अधि॑ । मु॒प्कयो॑ः ॥ ४॥ देवकृते देवेन विधात्रा निर्मिते ते त्वदीये ये नाड्यौ रेतोवहे । ययो- र्नाड्यो: वृष्ण्यम् । वृषा सेचनसमर्थः पुरुषः । तत्संबन्धि वीर्ये वृष्ण्यम् तिष्ठति वर्तते ते शुक्रधारभूत देवनिर्मिते नाड्यौ ते तव मु- प्कयो: अण्डयोरुपरि स्थिते अमुष्याः प्रसिद्धाया: शिलाया अधि उपरि शम्यया लकुटेन भिननि पेषयामि ॥ अष्टमी | यथा॑ न॒डं क॒शिपु॑ने॒ स्त्रियो॑ भि॒न्दन्त्यश्म॑ना । ए॒वा भिननि ते॒ शेपोमुष्या॒ा अधि॑ि सु॒ष्कयो॑ः ॥ ५ ॥ यथा॑ । न॒डम् । क॒शिपु॑ने । स्त्रिय॑ः । भि॒न्दन्ति । अश्म॑ना । । ए॒व । भि॒न॒ह्म॒ । ते॒ । शेप॑ । अ॒मुष्या॑ः । अधि॑ । मु॒प्कयो॑ः ॥ ५ ॥ स्त्रियः कशिपुने कटाय कटं निर्मातुं यथा येन प्रकारेण नडम क- टोपादानं तृणविशेषम अश्मना भिन्दन्ति आनन्ति एष एवम् हे शत्रो 1S' शुक्ला.