पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ अथर्वसंहिताभाष्ये ते तव मुष्कयो: [ अण्डयो:] वर्तमानं शेप: अमुष्या: शिलाया [अधि] उपरि अश्मना भिनझि आहन्मि । अनेन कर्मणा त्वां निर्वीर्य करो- मीति तात्पर्यम् ॥ [इति ] त्रयोदशेनुवाके सप्तमं सूक्तम् ॥ 66 “न्यस्तिका" इति सूक्तेन पञ्चर्चेन स्त्रीवशीकरणकर्मणि "भगेन मा सँम् [६. १२९] इत्यत्रोक्तानि कर्माणि कुर्यात् । सूत्रं तु तत्रैव उदाहृतम् ॥ यौ व्याघ्रौ” इति तृचेन कुमारस्य कुमार्या वा प्रथमम् उपरितन- दन्तजनननिमित्तदोषपरिहारार्थं व्रीहियवतिलानाम् अन्यतमं जुहुयात् ॥ तथा तत्रैव कर्मणि व्रीहियवमाषतिलान् एकीकृत्य अनेनाभिमन्त्य उ- पंजातदन्ताभ्यां दंशयेत् ॥ तथा तत्रैव कर्मणि अनेन स्थालीपाकं संपात्य अभिमन्य उक्तं शि- शुभ आशयेत् ॥ 66 सूत्रितं हि । 'यस्योत्तमदन्तौ पूर्वी जायेते यो व्याघावित्यावपति । मन्त्रोक्तान दंशयति । [ शान्त्युदकशृतम् आदिष्टानाम् आशयति ] । पि- तरौ चं" इति [ कौ० ५.१०] ॥ न्य॒स्ति॒का रु॑रोहथ सुभ॑गंकर॑णी॒ मम॑ । श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्त्रितानाः | तयां सहस्रपर्ण्या हृदयं शोषयामि ते ॥ १ ॥ निऽअस्तिका । रुरोहि॒िष । सुगम्ऽकर॑णी । मम॑ । शतम् । तव॑ । प्र॒ऽतानाः । त्रयः ऽत्रिंशत् । निऽतानाः । तया॑ । सह॒स्रऽपर्ण्या । हृद॑यम् । शोषयामि॒ । ते ॥ १॥ शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शु॒ष्यवा॒स्य॒म् । अथो॒ो नि शु॑ष्य॒ मा॑ कामे॒नाथो॒ शुष्का॒स्या चर ॥ २ ॥ शु॒ष्य॑तु । मयि॑ । ते॒ । हृद॑यम् । अथो॒ इति॑ । शृ॒ष्य॒तु । आ॒स्यम् । 1 १ ABÉDRŚPC- सुभागं? We witlh KKP J V Cr. 1S' तात्पर्यात् 2S वेति for च इनि. We with Kansikar.