पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ अथर्वसंहिताभाष्ये सम्ऽवन॑नी । स॒म्ऽउ॒ष्पला । बभ्रु | कल्या॑णि । सम । नु । । अ॒मूम् । च॒ । माम् । च॒ । सम् । नु॒द॒ । स॒मा॒नम् । हृद॑यम् । कृधि ॥ ३ ॥ - हे बभ्रु बभ्रुवर्णे पीतवर्णे हे कल्याणि मङ्गलकारिणि ओषधे संवन- नी संवननं वशीकरणं तद्वती । संपूर्वाद् वनते: करणे ल्युट् । टिवान्डीप् । समुष्पला सम्यक् उप्तफला सती सं नुद मत्समी- पंतां स्त्रियं नुद प्रेरय । तदनन्तरम् अमूं च कामिनीं मां कामुकं च सं नुद संयोजय सम्यग् मिथुनीभावय । आवयोः हृदयं समानम् एकं कृधि कुरु ॥ चतुर्थी ॥ यथो॑द॒कमप॑पु॒षोप॒शुष्य॑त्या॒स्य॒म् । ए॒वा नि शु॑ष्य मां कामे॒नाथो॒ शुष्का॑स्या चर ॥ ४ ॥ यथा॑ । उ॒द॒कम् । अप॑पुषः । अ॒प॒ऽशुष्य॑ति । आ॒स्य॒म् । एव । नि । शुष्य । माम् । कामे॑न । अथो॒ इति॑ । शुष्क॑ऽआस्या | च॒र॒ ॥४॥ यथा येन प्रकारेण उदकम् अपपुष: जलम् अपीतवतस्तृषार्तस्य पुरु- षस्य आस्यम् मुखं शुष्यति एव एवम् हे कामिनि माम उद्दिश्य का मेन नि शुष्य परितप्ता भव । अन्यत् पूर्ववत् । अपपुष इति । पा पाने इत्यस्मात् लिट: क्वसुः । ङसि “वसो: संप्रसारणम्” इति सं- प्रसारणम् । “आतो लोप इटि च” इति आकारलोपः । न च त- स्मिन् कर्तव्ये संप्रसारणस्य " असिद्धवद् अत्रा भात्" इति असिद्धव- द्भावः । अत्रग्रहणं समानाश्रयमतिपत्त्यर्थम् इत्युक्तत्वात् । ङसि संप्रसार- णं कसौ आलोप इति अनयोर्व्याश्रयत्वात् । “न लोकाव्यय" इति कर्मणि षष्ठ्या: प्रतिषेधः ॐ ॥ पञ्चमी । यथा॑ नकुलो विच्छिद्य॑ संदधात्यहं पुन॑ः । २K ज्य॑न्वा॒ा ३P अपपुषः, १. J उपयला.